________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ पञ्चमं व्याख्यानम् ॥
ओं नमः श्रीवर्धमानाय । अथ पञ्चमं व्याख्यानं प्रारभ्यते । पूर्व प्रथमवाचनायां पञ्चपरमेष्ठिनमस्कारो व्याख्यातः१, द्वितीयवाचनायां च श्रीमहावीरदेवस्य गर्भापहारकल्याणकं व्याख्यातम् २, तृतीयवाचनया च चतुर्दशखमा व्याख्याताः ३, चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातम् ४, अथ पञ्चमवाचनया [श्रीमन्महावीरदेवस्य ] दीक्षाज्ञाननिर्वाणकल्याणकानि व्याख्यायन्ते । तत्र पूर्व जन्मोत्सवो व्याख्यायते।
अथ भगवतो जन्मानन्तरं किं जातम् ?, तत्राह
जं रयणिं च णं समणे भगवं महावीरे जाए सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयं| तेहिं उप्पयंतेहि य उप्पिंजलमाणभूआ कहकहगभूआ आवि हुत्था ॥ ९७ ॥
व्याख्या-"जं रयणि-"यस्यां रजन्यांरात्रीश्रमणो भगवान महावीरोजातः, तस्यां रात्रौ देवोझ्योतोऽभवत्।
For Private and Personal Use Only