________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मम मुखागतः कवलो गमितः 1, । त्वया मम निष्पन्नं शालिक्षेत्रं दुर्वातेन दूषितम् ।। त्वया मम क्रयाणकभृतं परद्वीपादागतं प्रवहणं तीरे भग्नम् । त्वया(मया)निष्पादिता रसकूपी भग्ना!। किंवा वृथा देवस्य उपालम्भदानेन ?। अथवा मया कानिचित्पूर्वभवे महाकठोरपापकर्माणि कृतानि तानि उदये आगतानि तद्यथा"पसु-पक्खि-माणुसाणं बाले जो विहु विओअए पावो। सोअणवच्चो जायइ अह जायइ तो विवजिजा ॥२॥
किंवा मया पडकाः त्यक्ताः त्याजिता वा?, किंवा बालवत्सानां मात्रा सह वियोगः कृतः, कारितोवा, किंवा * मया बालवत्सानां दुग्धान्तरायः कृतः, कारितो वा ?, । किंवा मया बालसहितानि उन्दुरबिलानि स्वनितानि ?, धूल्यादिना पूरितानि वा ?,। किंवा मया नकुलकोलादिवालसहितेषु बिलेषु उष्णनीराणि क्षिसानि?, अथवा किं मया कीटिकादिनगराणि पानीयेन प्लावितानि?, । किंवा मया शुकसारिकामयूरहंसचटकाकुर्कुटादिपक्षिणां यालैः सह वियोगो दापितो दत्तो वा?,। किंवा मया चटकादीनां माला अंडकशिशुसहिताः पातिताः?, । किंवा मया कुबुद्ध्या धर्म ज्ञात्वा काकानां अण्डानि स्फोटितानि ?,। किंवा मया बालहत्या कापि कृता कारिता वा?, किंवा मया सपत्नीनां पुत्राद्यपरि दुष्टचिन्तनं कृतम् ?,। किंवा मया गर्भस्य स्तम्भनशातनपातनानि समाचरितानि ?, तन्मना वा प्रयुक्ताः, किंवा तेषां औषधानि कथितानि ?, किंवा कस्या अपि शिशोर्विषये अङ्गुलीभत्तवा शापः प्रादायि?, किंवा मया शिशवः त्यक्ताः त्याजिता वा अन्यदीयाः खकीया वा?,। किंवा केनापि विराधितेन ऋषिणा मम शापो दत्तः, किंवा कस्या अपि मया रनानि
For Private and Personal Use Only