________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एस मे गब्भे पुदि एयइ, इयाणि नो एयइत्तिक? ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपल्हत्थमुही अदृज्झाणोवगया भूमीगयदिट्ठिया झियायइ, तंपि य सिद्धत्थरायवरभवणं उवरयसुइंगतंतीतलतालनाडइज्जजणमणुज्जं दीणविमणं विहरइ ॥ ९२ ॥ व्याख्या-"तएणं" त्ति ततः श्रमणो भगवान् महावीरो मातुरनुकम्पार्थ कृपया मातरि वा भक्तिः, तदर्थ मयि परिस्पन्दमाने 'मा मातुः कष्टं भूयात्' इति मातरि वा भक्तिः अन्येषां विधेयतया दर्शिता भवविति । निश्चलः चलनाभावात् । निस्पन्दो जातः किंचिचलनस्थाप्यभावात् । अत एव निरेजना=निष्कम्पः, अत एव गुप्तः, परिस्पन्दनाभावात् । ततो विशेषणकर्मधारयः । वाऽपीति समुच्चये । ततः त्रिशलाक्षत्रियाण्याला अयं एतद्रूपो मनसि सङ्कल्पः समुदपद्यत । तद्यथा-मे मम स गर्भो हृतः केनापि देवादिना मृतो वा ? कालधर्म प्राप्तः, च्युतः सजीवपुद्गलपिण्डतालक्षणात् पर्यायात् परिभ्रष्टो?, गलितो-द्रवतामापद्य क्षरितः । चतुर्वपि पदेषु काका विकल्पप्रतीतिः । एष मे गर्भः पूर्व एजति-कंपते । इदानीं नो एजति, इति कृत्वा त्रिशला चिन्ताशोकसागरं प्रविष्टा । चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरः तत्र संप्रविष्टा । किंविशिष्टा त्रिशला ? | "ओहयमणसंकप्पा" उपहतः कालुष्यकवलितो मनःसङ्कल्पो यस्याः सा । पुनः किंविशिष्टा त्रिशला ? । “करयलेत्ति" करतले पर्यस्तं-निवेशितं मुखं यया सा। पुनः किंविशिष्टा
कल्प०१७
For Private and Personal Use Only