________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीइसक्कारेणं अईव २ अभिवडामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं
अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्नं करिस्सामो-वद्धमाणुत्ति ॥१०॥ व्याख्या-"ज रयर्णि" त्ति ततश्च श्रमणस्य भगवतो महावीरस्य मातापित्रोः अयं एतद्रूपोऽभ्यर्थितः चिन्तितः प्रार्थितो मनोगतः सङ्कल्पः समुदपद्यत, यत्प्रभृति अस्माकं एष दारकः कुक्षौ गर्भत्वेन व्युत्क्रान्तः, तत्प्रभृति तदादितः आवां हिरण्यादिभिः वर्धयावः, तत्र हिरण्यं रूप्यं, अघटितवर्ण इत्येके, स्वर्ण घटितं - धनं, गणिम-धरिम-मेय-पारिच्छेद्य-भेदात् चतुर्धा-तत्र-"गणिमं जाइफलपुप्फफलाइं, धरिमं तु कुंकुमगुडाई । मिजं चोप्पडलोणाई ३, परिच्छिजं रयणवत्थाई" ४॥१॥ धान्यं चतुर्विशतिधा, तथाहिधन्नाई चउवीसं जव १ गोधूम २ सालि ३ वीहि ४ सहिआ ५ कोइव ६। अणुआ ७ कंगू ८, रालय ९ तिल १. मुरग ११ मासा य १२ ॥१॥ हरिमंथ १३ अयसि १४ भिति]उडा १५ निप्पाव १६ सिलिंग १७ रायमासा य १८। उच्छू १९ मसूर २० तुबरी २१, कुलत्थ २२ तह धन्न य २३ कलाया २४ ॥२॥ इति । राज्यं सप्ताङ्गम्-स्वामी १ अमात्य २ देश ३ दुर्ग ४ संभार ५ सैन्य ६ मित्र ७ सप्ताङ्गरूपम् ।। राष्ट्र देशः, बलं-चतुरङ्गम, वाहनं वेसरादि, कोशो-भाण्डागारं, कोष्ठागारं धान्यगृह, पुरं अन्तःपुरं च, प्रतीतं, * जनपदो-लोकः। कचिच "जसवाएणं ति" पाठः, तत्र यशोवाद: साधुवादः तेन वृद्धिं गच्छावः। पुनः
For Private and Personal Use Only