________________
Shri Mahavir Jain Aradhana Kendra
KO KO XOXOXO
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| उद्यानानि = पुष्पफलाद्युपेतवृक्षशोभितानि बहुजनस्य उन्नतमानस्य भोजनार्थ यानं येषु इति उद्यानानि । वनानि = एकजातीयवृक्षाणि, वनखण्डानि = अनेक जात्युत्तमवृक्षस्थानानि । श्मशानं १, शून्यागारं २, गिरिकन्दरा च, ३३ एते त्रयः प्रसिद्धाः, शान्तिकर्मस्थानानि । कचित् “सन्धि" इति पाठः । तत्र सन्धिगृहं = भित्यो अन्तराले प्रच्छन्नस्थानम्, शैलगृहं पर्वतं उत्कीर्य यत् कृतं, उपस्थानगृहं = आस्थानगृहं आस्थानमण्डपः, ततः श्मशानादीनां द्वन्द्वः कापि “भवणगिहेसु वा" इत्यादि दृश्यते, तत्र भवनगृहाः कुटुम्बवसनस्थानानि । एतेषु स्थानेषु "संनिक्खित्ताई” सम्यक् निक्षिप्तानि कापि "संनिक्खित्ताइं संनिहिआई गुत्ताई चिट्ठति” इति पाठः, तत्र संनिहितानि सम्यक निधानीकृतानि, गुप्तानि पिधानानि अनेकोपायैः प्रवेशयन्ति = निक्षेपयन्ति । कचित् “संघाडएस वा" इत्यस्मात् पूर्वं "गामागरनगर खेडकडमडंबदोणमुहपट्टणास मसंवाहसंनिवेसेसु वा" इति दृश्यते । तत्र करादिगम्याः ग्रामाः, आकराः = लोहाद्युत्पत्तिभूमयः, न एतेषु करोऽस्तीति नगराणि, खेटानि धूलीमाकारोपेतानि, कर्बदानि-कुनगराणि, मडम्बानि = सर्वतोऽर्धयोजनात् परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथौ स्तः, पत्तनानि =जल स्थलपथयोः अन्यतरेण पर्याहारप्रवेशः, आश्रमाः - तीर्थस्थानानि मुनिस्थानानि वा, संवाहाः = समभूमौ कृषिकर्म कृत्वा येषु दुर्गभूमिपु धान्यानि कृषीवलाः संवन्ति रक्षार्थं, संनिवेशा:= सार्थकटकाद्याः, ततो द्वन्द्वः तेषु । कापि "संनिवेसघोसेसु" इति पाठः, तत्र घोषाः = गोकुलानि ॥
For Private and Personal Use Only