________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र रन्तिन्प्रवेशयन्ति, वृष्टिं तेषां कुर्वन्ति इत्यर्थः । "से" इति-अथ-शब्दार्थे । पुनः किंविशिष्टानि महानिधा- महाकल्पलता नानि ? । यानि पुरा प्रतिष्ठितत्वेन पुराणानि-चिरन्तनानि पुरापुराणानि । किविशिष्टानि महानिधानानि । | निधानाना व्या०४
"पहीणसामिआई"प्रहीणाः स्वल्पीभूताः स्वामिनो भूमिगतसहस्रादिसझ्या द्रव्यसञ्चयका येषां तानि प्रहीण- संहरण
|स्वामिकानि । पुनः किंविशिष्टानि महानिधानानि ? । “पहीणसेउआई" प्रहीणा: अल्पीभूताः सेक्तार:॥१४॥
सेवकाः धनक्षेप्तारो येषां तानि महीणसेक्तृकानि महीणसेतुकानि चा, सेतुः मार्गः । पुन: किंविशिष्टानि महा-| निधानानि ? । “पहीणगुत्तागाराई" प्रहीणं-विरलीभूतं मानुषं गोत्रागारं येषां तानि, तत्र गोत्रं धनस्वामिनः अन्वयः, अगारं-गृहम्, एवं उच्छिन्नो निःससाकीभूतः स्वामी येषां तानि । एवं उच्छिन्नगोत्रागाराण्यपि, व्याख्या प्राग्वत्। अथ केषु केषु स्थानेषु तानि ?, तदर्शयति-"संघाडएत्ति” इत्यादि तत्र शृङ्घाटकं फलं मतदाकारं त्रिकोण स्थानम् १ त्रिकं यत्र रथ्यात्रयं मिलति २, चतुष्कं यत्र रथ्याचतुष्कं मिलति ३, चत्वरं-10
बहुरथ्यापातस्थानम् ४, चतुर्मुख-चतुरं देवकुलादि, ५ महापथोराजमार्गः ६, ग्रामस्थानानिम्यामपुरा-Tal तननिवासभूमयः ७, नगरस्थानानि-नगरस्य उद्वसिता भूमयः ८, पुनः ग्रामनिर्धमनानि-ग्रामजलनिर्गमाः 'खालं' इति प्रसिद्धाः ९, एवं नगरस्य निर्द्धमनानि १०, पुनः आपणानि हटाः ११, देवकुलानि-पक्षाचायत- ॥ ९४ ॥ नानि १२, सभा:-जनोपवेशनस्थानानि । अत्र "एवासु चा" इति पदं बहुषु आदर्शषु दृश्यते, परं अतिरिक्तं सम्भाव्यते, वृत्त्यादौ अच्याख्यातत्वात् । आरामा कदल्यादिपच्छन्नानि ये स्त्रीयुतपुंसां क्रीडास्थानानि ।
For Private and Personal Use Only