________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ka-KOREXXXOXOXOXIROXAXE
अवितहमेयं देवाणुप्पिया ! इच्छियमेयं० पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणु| प्पिया !, सच्चे णं एसमढे से जहेयं तुब्भे वयहत्तिक? ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता
व्याख्या-"अवित” ततश्च सिद्धार्थो राजा तेषां खालक्षणपाठकानां समीपे एतं अर्थ श्रुत्वा हृष्टतुष्टः सन् तान् स्वपलक्षणपाठकान् एवं अवादीत्-एवमेतत् , भो देवानुप्रियाः, ईप्सितमेतत् देवानुप्रियाः, सत्यमेतत् देवानुप्रियाः!, यत् यूयं वदथ, यतो यूयं सुसिद्धिकाः, सुसिद्धिकानां सर्वत्र सिद्धिरेव स्यात् । गांगातैलीवत् । तथाहि। कोऽपि विप्रो युवा विद्यार्थी प्रतिष्ठानपुरे दक्षिणदेशे गत्वा भद्दपार्श्वे सर्व विद्यास्त्रिंशद्वषैः पठित्वा, जातगर्यो मस्तके अङ्कुशं धरन् , 'विद्यया उदरं मा स्फुटतु' इति उदरे बद्धपः, यदि वादी नष्ट्वा आकाशे याति तदा निश्रेण्यां आरुह्य अधः पातयामि, इति निश्रेणी सेवकस्कन्धे वहन , यदि वादी पाताले प्रविशति तदा कुद्दालैः खानयित्वा, निष्काशयामि, इति कुद्दालान् अपि सार्थे धरन्, यो ममाने हारयति स तृणान् मुखे गृहातु, इति तृणपुलक सेवककक्षायां धारयन् , वादेन दक्षिणगौर्जरमरुधरदेशवासिनो वादिनो निर्जित्य, IS सरस्वतीकण्ठाभरणादीन् बिरुदान वादयन् , भोजराजसभां पञ्चशतपण्डितैः विराजमानां श्रुत्वा उज्जयिन्यां (धारा) समेतः, भोजराजेन प्रवेशोत्सवादिना सन्मानदानपूर्व उत्तारितः समीचीनस्थाने । ततः सभायां
कल्प०१६
For Private and Personal Use Only