________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यको धर्मवरचक्रवर्ती भविष्यति । ततो हे देवानुप्रिय ! त्रिशलाक्षत्रियाण्या प्रधानाः शुभाः स्वमाः दृष्टाः । पुनः खमविचारोऽप्येवम्-हे राजेन्द्र ! धातुमकोपात् वायौ प्रबले सति वृक्षपर्वतशृङ्गं आकाशलङ्घनं खने पश्यति १, पित्ताधिके स्वर्णरत्नदिवाकरवहिप्रमुखाणि स्वप्ने पश्यति २, श्लेष्माधिक्ये सति अश्वचन्द्रनक्षत्रशुक्लपक्षनदीसरोवरसमुद्रादीनां लङ्घनं पश्यति ३, पुनः गोवृषभहस्तिपासादपर्वतशृङ्गवनस्पतीनां आरोहणं विष्ठालेपनं रुदितं मृतिं च यः खमे पश्यति तस्य श्रेष्टम् । पुनः यः स्वप्ने राजानं हस्तिनं अश्वं स्वर्ण वृषभं गावं कुटुम्बं च पश्यति, तस्य कुटुम्बपरिवारो वर्धते । पुनः यः प्रासादस्थितो भुड़े, समुद्रं च स्वप्ने तरति, स दासकुले उत्पन्नोऽपि राजा भवति । पुनः यो दीपं, अन्नं (अभ्रं) फलं पद्मं कन्यां छत्रं ध्वजं च स्वप्ने पश्यति, स जयं लभते । पुनः यः खेप्सितं लिङ्गं प्रतिमां च खप्ने पश्यति, तस्य आयुःकीर्तियशोधनानां वृद्धिः भवेत् । पुनः यः कसभस्मास्थितक्रवर्जितानि शुक्लवस्तूनि पश्यति, तस्य शोभनं भवेत् । पुनः यो गोहस्तिदेवाऽश्वनरेन्द्रवर्जितानि सर्वाणि वस्तूनि कृष्णानि स्वमे पश्यति, तस्य न शोभनं भवेत् । पुनः स्वममध्ये गाने रोदनं भवेत्, नर्तने बन्धनं प्राप्नुयात्, हसने शोचनं लभेत् , पठने कलहं लभते । पुनः खग्ने देवसाधुविप्रपितृराजवृषभाः यद्वदन्ति तत् सत्यं भवति । पुनः श्वेतसर्पण दक्षिणभुजे स्वममध्ये दष्टो भवेत् , तस्य सहस्रलाभो दशमदिने स्यात् । पुनः यो वृक्षं फलितं पुष्पितं क्षीरिणं स्वममध्ये अधिरोहति, तस्य
XXXXXXXXXXX
For Private and Personal Use Only