________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमटुं सोचा निसम्म हट्टतुट्ट जाव हयहियया ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपवि. सित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लद्धट्ठा गहिअट्ठा पुच्छिअट्ठा विणिच्छियट्ठा अभिगयट्ठा सिद्धत्थस्स रपणो पुरओ सुमिणसत्थाई उच्चारेमाणा २ सिद्धत्थं खत्तियं एवं वयासी ॥ ७२॥ व्याख्या-"तए णं ते" ततश्च ते स्वपलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य अन्तिके-समीपे एतं अर्थ श्रुत्वा, हृष्टतुष्टाः सन्तः तान् स्वमान् गृह्णन्ति, गृहीत्वा च विचारणां कुर्वन्ति, विचार्य च अन्योन्येन सह "संचालेंति" संवादयन्ति पर्यालोचयन्तीत्यर्थः। कचित् 'संलाविति त्ति'पाठः, तत्रापि स एवार्थः, ततःते कीदृशा जाता:?, तदाह-खमानां लब्धार्थाः लब्धोऽर्थो यैः ते लब्धार्थाः स्वत एव । पुनः कीदृशाः । गृहीतार्थाः पराभिप्रायग्रहणतः। पुनः कीदृशाः ? | पृष्टार्थाः संशये सति परस्परतः। तत एवं विनिश्चितार्था अत एव च अभिगतार्थाः अवधारितार्थाः, अथवा लब्धार्थाः अर्थश्रवणतः, गृहीतार्थाः अवधारणतः, पृष्टार्थाः संशये सति अधिगतार्था वा अर्थावयोधात्, विनिश्चितार्थाः ऐदंपर्यालोचनात्। सिद्धार्थस्य राज्ञः पुरः अग्रे स्वप्रशास्त्राणि समुच्चरन्तः सिद्धार्थ राजानं एवं अवादिषुः-किं अवादिषुः, तबाह
For Private and Personal Use Only