________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ४
॥ ८१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिधारणं
द्धानि मणिसुवर्णानि यस्य सः, न धात्यन्तरभूषणं अस्तीत्यर्थः । पुनः किंविशिष्टः नरेन्द्रः १ । कल्पितो विन्यस्तो आभरणाहारोऽष्टादश सरिकः, अर्धहारो नवसरिकञ्च त्रिसरिकं च प्रतीतं यस्य सः । तथा प्रालम्बो झुम्बनकं प्रलम्बमानो यस्य सः । कटिसूत्रेण = कव्याभरणेन सुष्ठु कृता शोभा यस्य सः । ततः पदत्रयस्य कर्मधारयः । यद्वा कल्पितहारादिभिः सुकृता शोभा यस्य सः । पुनः किंविशिष्टः नरेन्द्रः ? | पिनद्धानि = परिहितानि ग्रीवायां ग्रैवे यकानि = ग्रीवाभरणानि येन सः । पुनः किंविशिष्टः नरेन्द्रः ? | अङ्गुलीयकानि = अङ्गुल्याभरणानि ऊर्मिकाल लितानि शोभावन्ति कचाभरणानि पुष्पादीनि यस्य सः । कापि “पिणद्धगेविज्ज अंगुलिज़ललि अंगयललिअकयाभरणे त्ति" पाठः, तत्र पिनद्धानि ग्रीवादिषु ग्रैवेयकाङ्गुलीयकानि येन सः, तथा ललिताने शरीरे अन्यान्यपि ललितानि= सशोभानि कृतानि विन्यस्तानि आभरणानि यस्य सः । ततः पदद्वयस्य कर्मधारयः । यद्वा पिनद्वानि ग्रैवेयकाङ्गुलीयकानि ललिताङ्गदे च कचाभरणानि च येन सः । पुनः किंविशिष्टः नरेन्द्रः ! | वरकटकानि= प्रधानहस्ताभरणानि, त्रुटिकानि = बाह्राभरणानि तैः स्तम्भितो इव भुजौ यस्य सः । पुनः किंविशिष्टः नरेन्द्रः ? | अधिकरूपेण सश्रीकः । पुनः किंविशिष्टः नरेन्द्रः ? । कुण्डलाभ्यां उयोतितं आननं यस्य सः । पुनः किंबिशिष्टः नरेन्द्रः ? | मुकुटेन दीसं शिरो यस्य सः । पुनः किंविशिष्टः नरेन्द्रः ? । हारेण अवस्तृतं = आच्छादितं तेनैव सुकृतरतिकं च वक्षो यस्य सः । पुनः किंविशिष्टः नरेन्द्रः ? | मुद्रिकाभिः =सरलाङ्गुल्याभरणैः पिङ्गला अङ्गुलयो यस्य सः । पुनः किंविशिष्टः नरेन्द्रः ? । प्रलम्बेन प्रलम्बमानेन च सुकृतं पटेन उत्तरीयं = उत्तरासंगो
For Private and Personal Use Only
*****@
॥ ८१ ॥