________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः शुभोदकैः = पवित्रस्थानाहृतैः तीर्थोदकैः सुखोदकैः वा नात्युष्णैः । पुनः शुद्धोदकैश्च स्वाभाविकैः, तत्र कथं मज्जितः ? इत्याह- "तत्थ कोड ०" तत्र स्नानावसरे कौतुकादीनां रक्षादीनां शतैः बहुविधैः । तत्रापि राजा कदा कीदृशश्च जातः ? तत्राह - 'कल्लाणगपवरमज्जणावसाणे' इति । अथ सिद्धार्थो राजा कल्याणकमवरमज्जनावसाने कीदृशो विभूषितो जातः ? तंत्र कल्याणानि कायति = आकारयति कल्याणकं एवंविधं यत् प्रवरमज्जनं तस्य अवसाने = प्रान्ते । एतावता कल्याणकारि प्रधानमज्जनकरणानन्तरं इत्यर्थः । कीदृशो नरेन्द्रः ? | पक्ष्मला पक्ष्मवती सुकुमारा गन्धप्रधाना काषायिका - कषायरक्ता शाटिका तया लूषितं अङ्कं यस्य असौ । पुनः किंविशिष्टो नरेन्द्रः ? | कापि - " नासानी सासवायवज्झचक्खुहरवण्णफरि सजुत्तहयलालापेलवाइरे गधवलकणग खचिअंति” पाठ: । तत्र नासानिःश्वासवातेन वाह्यं लक्ष्णत्वात् चक्षुः हरति विशिष्टरूपत्वात् चक्षुर्हरं चक्षुर्धरं वा, चक्षूरोधकं धनत्वात् वर्णस्पर्शयुक्तं हयलालायाः सकाशात्, पेलवं मृदु अतिरेकेण अतिशयेन धवलं यत्तत् तथा, कनकेन खचितं = मण्डितं अन्तयोः । पुनः किंविशिष्टो नरेन्द्रः ? । अहतं मलादिना अनुपहतं सुमहार्घ= बहुमूल्यं यत् दृष्यरत्नं प्रधानवस्त्रं तेन सुसंवृतः = परिगतः, यद्वा सुष्ठु संवृतं = परिहितं येन सः । पुनः किंविशिष्टः नरेन्द्रः ? | सरससुर भिगोशीर्ष चन्दनानुलिप्तगात्रः । सुगमम् । पुनः किंविशिष्टः नरेन्द्रः ? | शुचिनी= पवित्रे माला च पुष्पमालावर्णकं विलेपनं च मण्डनकारि कुङ्कुमादिविलेपनं यस्य सः । यद्यपि वर्णकशब्देन चन्दनमुच्यते, परं " गोसीसचंदणाणुलित्ते" इत्यत्र तस्य चंदनस्य उक्तत्वात् । पुनः किंविशिष्टः नरेन्द्रः १ । आवि
For Private and Personal Use Only