________________
Shri Mahavir Jain Aradhana Kendra
*-*-*-*
-*---
Pay-X---*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरीरं लक्खणर्वजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्ण सुजाय सवंग सुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुरुवं दारयं पयाहिसि ॥ ५२ ॥
व्याख्या- 'उराला णं तु मे देवाणुप्पिए !' हे देवानुप्रिये ! हे सरलखभावे ! स्वया उदाराः कल्याणाः शिवाः धन्याः मङ्गल्याः सश्रीकाः आरोग्य - तुष्टि-दीर्घायुः - कल्याण - मङ्गल्यकारकाः खमाः दृष्टाः । व्याख्यानं एतेषां पूर्ववत् । पुनः खनप्रभावात् तव अर्थलाभो "भविष्यति” इति क्रिया सर्वत्र योज्या । अर्थो हिरण्यादिः तस्य लाभः, भोगाः शब्दादयः तेषां लाभः पुत्रः = सुतः तस्य लाभः, सौख्यं = निर्वृतिः तस्य लाभः, राज्यं = सप्ताङ्गस्वरूपं तस्य लाभः तव भविष्यति । पुनः त्वं हे देवानुप्रिये ! नवसु मासेषु बहुप्रतिपूर्णेषु सार्धंसप्तदिवसेषु व्यतिक्रान्तेषु सत्सु, एवंविधं दारकं पुत्रं जनयिष्यसि । किंविशिष्टं दारकम् ? । अस्माकं कुले केतुः चिह्नं ध्वजं केतुरिव केतुः, अद्भुतत्वात् तम् । “कुलहेतुः" इति पाठान्तरे कुलस्य हेतुं कारणम् । पुनः कुले द्वीपं दीप इव दीप:, प्रकाशकत्वात् मङ्गलत्वाच्च तम् । पुनः कुले पर्वतं अनभिभवनीयस्थिराश्रयसाधर्म्यात् । पुनः कुले अवतंसं-शेखरं, उत्तमत्वात् । पुनः कुले तिलकं, भूषकत्वात् । पुनः कुले कीर्तिः ख्यातिः तस्याः करम् । कचित् “कुलवित्तिकरं" (इति) पाठः । तत्र वृत्तिः = निर्वाहः तस्याः करम् । पुनः कुले दिनकरं=सूर्य, अतिप्रकाशकत्वात् । पुनः कुले आधारं, पृथ्वीवत् । पुनः कुले नन्दिकरं = वृद्धिकरम् । पुनः कुले यशः सर्वदिग्गामि तस्य करम् । पुनः कुले पादपं वृक्षम् आश्रयणीयच्छायत्वात् । पुनः कुले
For Private and Personal Use Only
Fox-oX*********-*-*-*