________________
Shri Mahavir Jain Aradhana Kendra
XXXXXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करेइ, करिता तिसलं खत्तिआणिं ताहिं इट्ठाहिं जाव मंगलाहिं मियमहुरसस्सिरीयाहिं वहिं संलवमाणे २ एवं वयासी ॥ ५१ ॥
व्याख्या- "तएणं से" ततश्च सः सिद्धार्थः क्षत्रियो राजा, त्रिशलायाः क्षत्रियाण्याः अन्तिके समीपे, एतं पूर्वोक्तं अर्थं श्रुत्वा हृष्टतुष्टः सन्, 'पीहमणे' त्यादिपदानि पूर्व व्याख्यातानि सन्ति, तादृशः सन् । “ते सुमिणे ओगिण्हेइ" तान् खमान् अवगृह्णाति अर्थाऽवग्रहतः अवगृह्य च ईहां सदर्थपर्यालोचनलक्षणां अनुप्रविशति । ततः " अप्पणो” आत्मनः स्वाभाविकेन मतिपूर्वकेन वुद्धिविज्ञानेन तेषां स्वमानां अर्थाऽवग्रहं करोति । "अप्पणो” इत्यादिपदानां अर्थः पूर्ववत् ज्ञेयः । अर्थावग्रहं कृत्वा त्रिशलां क्षत्रियाणीं ताभिः वाग्भिः एवं अबादीत्-"ताहिं” इत्यादीनि पदानि पुनः विस्तरेण व्याख्यायन्ते - किंविशिष्टाभिः वाग्भिः ? । ताभिः = विवक्षिताभिः पुनः इष्टाभिः = वाञ्छिताभिः पुनः कान्ताभिः = कमनीयशब्दाभिः पुनः प्रियार्थाभिः । पुनः मनसा ज्ञायन्ते सुन्दरतया, भावतः सुन्दरतरा इत्यर्थः, ताभिः । पुनः मनसा रम्यन्ते गम्यन्ते, पुनः पुनर्याः सुन्दरत्वात् ताभिः । पुनः मनसा अभिविधिना अति बहुकालं यावत् रमयन्तीति । पुनः उदाराभिः शब्दतोऽर्थतश्च । पुनः कल्याणाभि: शुभार्थप्राप्तिसूचिकाभिः । पुनः शिवाभिः = उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः । पुनः धन्याभिः = धनलम्बिकाभिः । पुनः माङ्गल्याभिः = मङ्गले
For Private and Personal Use Only