________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रस्खम वर्णनम११
कल्पसूत्रं पश्यति।किंविशिष्टः क्षीरसागर?"चंदकिरणेत्ति" चन्द्रकिरणराशेः सदृशं श्रीः एव यस्य वक्षा मध्यभागस्तन कल्पलता शोभा यस्य स तम् । वक्षःशब्देन अत्र मध्यभागो लक्ष्यते । पुनः किंविशिष्टं क्षीरसागरम् | "चउगमव्या०३ त्ति" चतुर्गमनेषु-चतुर्दिङ्मार्गेषु प्रवर्धमान परिवर्तमानः प्रसरन् जलसंचयो यस्य स तम् । “चउगुणप
*बड्डमाणजलसंचयं" इति पाठः सुगम एव । कस्मात् चतुर्गुणत्वं इति अनपेक्ष्यैव अधिकमात्रस्यैव विवक्षितत्वात् । ।। ६७॥
पुनः किंविशिष्टं क्षीरसागरम् ? । “चवलेत्ति" चपलेभ्योऽपि चश्चलैः उच्चात्मप्रमाण:-अत्युनततरमानैः कल्लोले महत्तरंगैः लोलत् तोयं यस्य स तम् । पुनः किंविशिष्टं क्षीरसागरम् ? । “पडुपवणेत्ति" पटुपवनेन आहताः सन्तः चलिता प्रवृत्ताः अत एव चपलाः प्रकटा: स्पष्टाः तरङ्गाः तथा रङ्गन्त इतस्ततः प्रेगुन्तो भङ्गाः "भङ्गस्तरको भेदे वा” इति वचनात् तरङ्गविशेषा एव रङ्गङ्गाः । तथा “खोखुन्भमाणत्ति" अतिक्षुभ्यन्तः शोभमानाः | निर्मला उत्कराः दुःसहा ऊर्मयः, ततः तरङ्गान्त १ भङ्गान्त २ ऊर्म्यन्त ३ पदानां द्वन्दूः कर्तव्यः। अत्र कल्लोलाः सामान्येन तरङ्गाः, ते एव लघवो भङ्गाः, ते एवं विच्छित्तिमन्तः ऊर्मयो-महाकल्लोला: तैः सह सार्धं यः सम्बन्धः तेन पूर्व धावमानः तीराभिमुखं सर्पन, पश्चादभिनिवृत्तोऽन एवं भासुरतरोऽतिभयङ्करः अभिरामश्च हृद्यः धावमानः सन् भासुरतरोऽपनिवृत्तश्च सन् अभिराम इत्यर्थः । ततो "लोलंनतोयान्त” पदेन सह कर्मधारयः । कचित् “उकडउम्मीसहस्संति” पाठः, स च सुबोधः । ततः परं "पबंधायमाणोनिअत्त|भासुरतराभिरामं” इति पाठः, तत्र प्रबन्धन नैरन्तर्येण अयमानो-गच्छन्, आयमानो बा-प्रत्यागच्छन्
॥६७ ॥
KO
For Private and Personal Use Only