________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RDA
किंविशिष्टं पद्मसरः? "पउमिणित्ति" पद्मिनीनां पत्रेषु उपलग्ना ये जलविन्दवः तेषां निचयेन चित्रं मण्डितमिव । कचिच्च "जलबिंदुमुत्तचित्तं" इति पाठः, तत्र जलबिन्दव एव मुक्ताः मौक्तिकानि ताभिः चित्रम् । पुनः किंविशिष्टं पद्मसरः? । हृदयनयनानां कान्तम् । पुनः किंविशिष्टं पद्मसरः । “सररुहाभिरामंति" सरस्सु= सरोवरेषु अह-पूज्यम् अत एव अभिरामं सरोरुहाभिरामं, "उच्चाहतीति" हकारात् पूर्व उकारः। सरोवरदर्शनात् सरोवरवत् सुराऽसुरनररूपराजहंसादिसेव्यो भावी ।। इति दशमपद्मसरोवरखमविचारः॥१०॥
अथ एकादशे स्वमे त्रिशला क्षत्रियाणी समुद्रं पश्यति, परं स कीदृशः ? तत्राहतओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभतनिम्मलुक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुचलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सा रयणिकरसोमवयणा ११ ॥४३॥ व्याख्या-"तओ पुणो चंदकिरणरासि ततः पुनः सा त्रिशला क्षत्रियाणी क्षीरोदसागरं एकादशे स्वप्ने
कल्प०१२
For Private and Personal Use Only