________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
कल्पसूत्रं कल्पलता व्या०३
॥५४॥
स्कन्धो यस्य स तम् । इदं ककुदं खभावेनैव उल्लसति , परं तत्र उत्प्रेक्षा क्रियते-इदं न खभावेन उल्लसति,*षमखमकिंतु सहजशोभासम्भारेण प्रेर्यमाणं उल्लसति । पुनः किंविशिष्टं वृषभम् ? । “तणुसुइसुकुमाललोमनिदच्छशिवर्णनम् २ तनो-शरीरस्य शुचिमुकुमालरोम्णां स्निग्धा छविः यस्य स तम् । पुनः किंविशिष्टं वृषभम् । “थिरसुबद्धेत्ति" स्थिरं अत एव सुबद्धं, अत एव मांसलं, अत एव उपचितं लष्टं प्रधानं सुविभक्तं यथावत् संनिविष्टाऽवयवं सुन्दरं अङ्गं यस्य स तम् । एतावता यस्य वृषभस्य अङ्गानि अवयवाः स्थिराणि-सुवद्धानि मांसलानि उपचि. तानि प्रधानानि यथावत् संनिविष्टावयवानि सन्ति । पुनः किंविशिष्टं वृषभम् ? | "घणबहलद्वेत्ति" घने निचिते वृत्त वर्तुले वलिते-लष्टात् अपि उत्कृष्ट अतिश्रेष्ठे 'तुप्पग्गे' म्रक्षिताग्रे तीक्ष्णे शृङ्गे यस्य स तम् । कचित् | "तुप्पपुप्फग्गतिक्खत्ति” पाठः, तत्र तुप्पे-प्रक्षिते पुष्पाने पुष्पाकारं गोरोचनासत्तासूचकं बिन्दुरूपं पुष्पं तत् अग्रे-उपरिभागे ययोः इति योज्यम् । पुनः किंविशिष्टं वृषभम् ?। दन्तम्, न दुन्तिम् । पुनः किविशिष्टं वृषभम् । "सिव" शिवं-उपद्रवनिवारकम् । पुनः किंविशिष्टं वृषभम् ? । “समाणसोहंतसुदंतं" समाना तुल्यप्रमाणाः अत एव शोभनाः शुद्धा निर्दोषाः श्वेता वा दन्ता यस्य स तम् । एतावता यस्य वृषभस्य दन्ताः तुल्यप्रमाणाः शोभनाः निर्दोषाः श्वेताश्च वर्तन्ते । पुनः किंविशिष्ट वृषभम् ।। "अमिअगुणमंगलमुह" अमितगुणानां महालानां मुखं इव मुखंद्वारम् । “मंगलमुहं" इति पाठे तु "अमिअगुणं” अत एवं "मंगलमुहं" कल्याणकरणसमर्थम् ।
For Private and Personal Use Only