________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पारणायै मिलिताः सन्ति । तदा तेषां मध्यादेकेन मुनिना मोक्तम्-'अहं जानामि उपायम् । तदा सुवर्णकबोलके नीरं अभिमछय, राज्ञो दत्तम्, प्रोक्तं च-'या तव अभीष्टा राझी भवति तस्याः पारयम् पुत्रो भावी। राजा नीरं लात्वा स्वावासे गतः। सर्वाभी राज्ञीभिः श्रुतो व्यतिकरः, सर्वाभिः दासीद्वारा कथापितम्-| 'मम देयम् ।' राज्ञा विचारितम्-'राइयो बडयः, कस्या दीयते ?, एकस्या दत्ते अन्याः सर्वा अपि क्लेश करिष्यन्ति, मरिष्यन्ति, मां अपि मारयिष्यन्ति । पुनः ताभिः प्रोक्तम्-'यस्या दास्यसि पानीयम् तां वयं मारयिष्यामः राज्ञा चिन्तितम्-'प्रतापो१ गौरवं २ पूजा ३, श्रीः४ हीः५ यशः६ सुप्रतिष्टिता ७ तावत्काल प्रवर्तन्ते, यावन्नोत्पद्यते कलिः॥१॥” इति विचिन्त्य न कस्या अपि दत्तम् । नीरभृतं कच्चोलकं वस्त्रेण आच्छाद्य, पानीयस्थाने घटोपरि मुक्तम् । राजा स्वस्याऽऽवासे सुप्तः। राम्रो राज्ञः तृषा लग्ना, पानीयं मार्गितम् । राश्य: कथयन्ति-'या तब अभीष्टा भविष्यति सा पानीयं पाययिष्यति। तदा अन्यः कोऽपि पार्वे नाभूत् । एका शय्यापालिका अभूत्, तया अजानत्या तत् कबोलकनीरं आनीय दत्तम्, राज्ञा च पीतम्, मनप्रभावात् गर्भो जातः। प्रतिदिन (दिने दिने) उदरं वर्धते, राजा लनया सभायां नायाति, प्रत्युत असमाधानं जातम् । राज्ञा ८८ अष्टाशी तिसहस्रमुनीनां उपालम्भो दत्तः, 'लामं इच्छतो मम मूलक्षतिः आयाता। ततः ३३ कोटिदेवता ८८ सहस्रमुनिमेलापकेन आराधित इन्द्रः समागतः, तेन खसेवकदेवपार्थात् राज्ञो नाभिं विदार्य संपूर्णों गर्भो निष्कासितः। सर्वः प्रोक्तम्-'स्तन्यपानं कस्य करिष्यति । इन्द्रेण प्रोक्तम्-'मां धास्यति ।'
कल्प०९
For Private and Personal Use Only