________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AVM
मान्धात्कथा
कल्पसूत्रं अनाऽऽह कोऽपि शिवशासनी-'अहो! जैनदर्शने एषा डिङ्गरूपा असम्बद्धा वक्तव्यता!। एवमपि गर्भकल्पलता परावर्तनं कदापि भवति ? तत्रोच्यते-शिवशासनेऽपि श्रीभागवते दशमस्कन्धे द्वितीयाध्ययने बलदेवस्य गर्भव्या०२ परावर्तनं श्रूयते। तत्रत्यं श्लोकचतुष्टयम्-"भगवानपि विश्वात्मा, विदित्वा कंस भयम् । यदूनां निजनाधानां,
योगमायां समादिशन् ॥१॥ गच्छ देवि! ब्रजं भद्रे, गोपं गोभिरलङ्कतम् । रोहिणी वसुदेवस्य, भार्याऽऽस्ते ॥४८॥
नन्दगोकुले ॥२॥ देवक्या जठरे गर्भ, शेषाख्यं धाम मामकम् । तत्संनिकृष्य रोहिण्या, उदरे संनिवेशयत् ॥ ३॥ गर्भसंकर्षणात् तं चै, आहुः संकर्षर्ण भुवि । रामेति लोकरमणा-ठूलभद्रं बलाश्रयात् ।। ४॥” ।
पुनरपि पुराणे मान्धाताराजोत्पत्तिकथा यथा-विशाला नाम नगरी, तत्र यवनाश्वो राजा महासाम्राज्यधरः, परं अपुत्रः, तेन पुत्रार्थ १६०० पोडशशतकन्यापाणिग्रहणं कृतम् , परं तथापि पुत्रो न जायते, तेन मनसि * अतीव दूनः चिन्तातुरः, यतः-"अपुत्रस्य गतिनास्ति, खगों नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा, खर्गे यान्ति
हि मानवाः॥१॥” पुनः 'गेहंपि तं मसाणं, जत्थ न दीसंति धूलिधूसरमुहाई। उहृति पडंति रडवडंति दो तिन्नि | डिभाई॥' इत्यादि, ततः कस्याप्युपदेशात् ८८००० अष्टाशीतिसहस्रऋषीणां भोजनं दातुं प्रवृत्तः। ३३ त्रयस्त्रिंशत्कोटिदेवताऽऽराधनमपि कृतम् , तथापि पुत्रो न भवति । एकदा ८८ सहस्रऋषिभिः विमृष्ठम्-'अयं राजा आत्मनां प्रत्यहं मिष्टान्नपानः भक्तिं करोति, परं कस्यापि पुत्रकरणे शक्तिः नास्ति, सर्वेऽपि उदरम्भरयः
FoXXXXXX
For Private and Personal Use Only