________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० २
॥ ४५ ॥
*•*•*•*•**•*•*•*•*•*•*.
www.kobatirth.org
गन्भन्ताए साहरइ, जे वि अ णं से तिसलाए खत्तिआणीए गन्भे तंपिअ णं देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरइ साहरिता ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- "तरणं त्ति" ततः सः हरिणैगमेषीदेवः देवेन्द्रेण एवम् उक्तः सन् हृष्टतुष्टो मस्तके अञ्जलिं कृत्वा एवं अवादीत् - "देवः खामी आज्ञापयति तत् तथैव "आणाए" आज्ञया विनयेन च "वयणं" आदेशवचनं, "पडिसुणेड़" प्रतिशृणोति कर्तुं अभ्युपगच्छति, प्रतिश्रुत्य च “उत्तरपुरच्छिमं दिसी भागं” ईशानकूर्ण अपक्रामति= गच्छति गत्वा च "वेउचिअसमुग्धाएणं" उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण " समोहणइ " "समुग्धत्ति" आत्मप्रदेशान् विक्षिपति, समुद्घातस्वरूपमेव प्राह - "संखिजाई जोअणाई दंड निसिरइ" दण्ड इव दण्डः, ऊर्ध्वाधआयतः शरीरबाहुल्यो जीवप्रदेशकर्मपुद्गलसमूहः तं दण्डं संख्यातानि योजनानि यावत् । निःसृजति = निष्कासयति वितनोति तत्र च विविधान् पुद्गलान् आदत्ते इति दर्शयन् आह, तत् यथा - "रय गाणं" इत्यादि । रत्नानां कर्केतनानां एवं वज्र - बैडूर्य - लोहिताक्ष-मसारगल्ल-हंसगर्भ- पुलक-सौगन्धिकजातिसर-अञ्जन-अञ्जन पुलक-जातरूप - सुभग-अङ्करत्न-स्फटिकरत्नानां दण्डेन यथा बादरान् असारान् दण्डनिसर्गगृहीतान् पुद्गलान् परिसाट्य (= परित्यज्य ), यथा सूक्ष्मान् सारान् पर्यादत्ते= प्रत्यादत्ते दण्डनिसर्गगृहीतान् सामस्त्येन आदत्ते इत्यर्थः ॥ एवं द्वितीयवारं समुद्धातं करोति वाञ्छितरूपकरणार्थ, येन रूपेण
For Private and Personal Use Only
वैक्रियरूपकरणम्
।। ४५ ।।