________________
तृतीय अनुवाक
पाँच प्रकारकी संहितोपासना
अब संहितासम्बन्धिनी उपनिपत् ( उपासना ) कही जाती है
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सहिताया उपनिपदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्योतिषमधिविद्य मधिप्रजमध्यात्मम् । ता महासहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः संधिः ॥ १ ॥
वायुः संधानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् | अग्निः पूर्वरूपम् | आदित्य उत्तररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् | आचार्यः पूर्वरूपम् ॥ २ ॥
अधुना संहितोपनिपदुच्यते
अन्तेवास्युत्तररूपम् । विद्या संधिः / प्रवचनसंधानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्व - रूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजनन संधानम् । 'इत्यधिप्रजम् ॥ ३ ॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्संधिः । जिह्वा संधानम् । इत्य