________________
संस्कृतटीका-भाषाटीकासहिता। (४७) तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानातीति यत्र वाऽन्यदिव स्यात्तवान्यो न्यत्पश्येदन्योन्यजिदन्योऽन्यद्रसयेत्" इत्यादिश्रुतेरे चशब्दः पूर्वोक्ताद्वैलक्षण्यं सूचयति यदा यस्मिन ज्ञानकाले सर्वमात्मत्वेन भवेत् तत्र तस्मिन् ज्ञानकाले इतरोऽण्वपि किंचिदप्यन्यन्नपश्यति यत्रवा “अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन के जिनेत्" इत्या दिश्रुतेः सकार्याज्ञाननिवृत्त्या न द्वैतमिति भावः॥५३॥ .
भा. टी. जिस अवस्थामें अज्ञान वशसे द्वैत होयहै उसी । अवस्थामैं एक पदार्थ दूसरे पदार्थका दर्शन कर है जब आत्मज्ञान होजाय है तब किसीको, कुछ अन्य नहीं मालूम होयहै ।। ५३ ॥ . . .
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः॥ नवै तस्य भवेन्योहो न चशोकोऽद्वितीयतः ॥५४॥
सं. टी. ननु द्वैतादर्शने कः पुरुषार्थ इत्याशक्य तत्प्रतिपादिकाम् “यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इति श्रुतिमर्थः पठति यस्मिन्निति । यस्मिन्निवस्थाविशेषे सर्वाणि भूतान्यात्मत्वेनात्मभावने विजानतः अपरोशेण साक्षात्कुर्वतोऽधिकारिणः पुरुषस्य तस्येति षष्ठी