________________
अपरोक्षानुभूतिः ।
स्वल्पमप्यंतरं कृत्वा जीवात्मपरमात्मनोः ॥ यः संतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥
सं. टी. एवं कर्तृकर्मादिकारक घटस्यैकाधिष्ठानरूपत्वे सिद्धेपि भेददर्शिनो भयमाद स्वल्पेति । स्वल्पमप्यंतरमुपास्योपासकरूपं भेदं कृत्वा कल्पयित्वा यस्तिष्ठति तस्य भयं भाषितम् "यदा ह्येवैप एतस्मिन्नुदरमंतरं कुरुते अथ तस्य भयं भवति ” इत्या दिश्रुत्येत्यर्थः ॥ ५२ ॥
( ४६ )
भा. टी. जो पुरुष जीवात्मा और परमात्मामें कुछभी भेद कर है और माने है वह मूढ पुरुष भयको प्राप्त होय है अर्थात उसके चित्तको कदापि शान्ति नहीं होय है ॥ ५२ ॥ यत्राज्ञानाद्भवेद द्वैतमितरस्तत्रपश्यति ॥ आत्मत्वेन यदा सर्वं नेतरस्तत्र चा ण्वपि ॥ ५३ ॥
सं. टी. नतु प्रकाशतमसोखि परस्परविरुद्धस्वभावयोद्वैताद्वैतयोः कुत एकाधिकरणत्वमित्याशंक्याव - स्थाभेदादित्याह यत्रेति यत्र यस्यामज्ञानावस्थायां अज्ञानेन द्वैतमिव भवेत्तत्रतस्यामज्ञानावस्थायाम्" इत रोऽन्योऽन्यत्पश्यति यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिप्रति तदितर इतरं शृणोति