________________
Scanned by CamScanner
शीलवती.
॥८॥
वोचत ॥४२॥संतुष्टो भूपतिस्तं च, मुख्यं सकलमंत्रिषु। मंत्रिणं स्थापयामास, धर्मकमेकसूत्रिणम् ॥ ४३ ॥ पर्यंतदेशभूपालं, सिंहनामानमन्यदा । सद्योऽभ्यषेणयद् राजा, गृहीत्वा षड्विधं बलम् ॥४४॥ ततश्चाजितसेनोऽपि, चिंताचांतमना मनाम् । शीलवत्या महासत्या, पृष्टः स्पष्टमभाषत ॥ ४५ ॥ यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनी रहे। विहाय सह भूपेन, यियासोमें न निवृतिः॥४६॥ साप्याह राजकार्याणि, कर्तव्यानि यथा |
तथा। शीलं तु मम शक्रोऽपि, नैव खंडयितुंक्षमः॥४७॥प्रत्ययार्थ तथा चेयं, पुष्पमाला । गलेऽस्तु ते । सुशीला विद्धि मामेना-मम्लानां यावदीक्षसे ॥४८॥ इत्युक्त्वा स्वगुण
श्रेणि-मिव तत्कंठकंदले। पुष्पमालां निचिक्षेप, हृष्टः सोऽपि ततोऽचलत् ॥४९॥ गजमद्रजलवर्षासिक्तभूरश्वपादो--द्धतबहलरजोभिः पूरिताभ्रोतुल्यः । धवलरथपताकोद्यद्बलाकोऽथ तूर्य-स्वनिगुरुतरगर्जिस्तद्भिदे राट् चचाल ॥ ५० ॥ गतः कांचिदरण्यानी, नृपः कुसुमवर्जिताम् । ददाजितसेनस्य, कंठे मालां विकस्वराम् ॥५१॥ कुतोऽसाविति भूपेन, पृष्टो मंत्री स्फुटं जगौ । नित्यमस्तीयमम्लाना, प्रियाशील
॥८॥