________________
Scanned by CamScanner
कंटककीटादे-भयं दृष्टेरगोचरे॥ को नामाल्पकृते काय-मपाये तात! पातयेत् ? ॥३२॥ इत्यादि पुत्रजायोक्त-युक्तिप्रीणितमानसः ॥ क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥ ३३ ॥ दर्शितानि ततो वध्वा, गृहीत्वाऽऽभरणानि च ॥ तुष्टस्तदखिलं वृत्तं, जगाद सुतजाययोः ॥ ३४ ॥ सर्वस्वस्वामिनी सैव, श्रेष्ठिना स्थापिता ततः ॥ तंत्कृत्यैश्च गृहं प्राप, नित्यं नवनवाश्रयम् ॥३५॥ चलत्वादायुषः श्रेष्ठी, कालधर्म गतः क्रमात् ॥ छायेव पादपं सद्यः, श्रेष्ठिन्यपि तमन्वगात् ॥३६॥ कुटुंबनायकत्वेन, स्थापितः स्वजनैस्ततः ॥ गृहस्थधर्ममजित-सेनश्चिरमपालयत् ॥ ३७ ॥ इतश्च मीलितैकोनमंत्रिपंचशतोऽन्यदा। विशिष्टधिषणं कंचि-च्चिकीर्षमैत्रिणं परम् ॥३८॥ अरिमर्दनभूपालः, प्रत्येक नागरान् जगौ ॥ यो मां निहंति पादेन, को दंडस्तस्य युज्यते?॥३९॥युग्मम्॥सर्वे ऽप्यूचुः शिरच्छेदं, सर्वदंडं च सोऽर्हति ॥ तच्छ्रुत्वाऽजितसेनोऽपि, शीलवत्यै न्यवेदयत् । ॥४०॥चतुर्विधमहाबुद्धि-निधानं साप्यदोऽवदत् । सर्वागाभरणवातं, दत्त्वा संतोष्यतेऽसको ॥४१॥कथमित्यनुयुक्ताऽऽह, विदग्धा कः प्रियां विना। तमाहंतुमपीहेत?, तद् राज्ञे सोऽप्य