________________
Scanned by CamScanner
शीलवती.
अयःकुद्दालमादत्त, करे कमललीलया ॥१॥काकाय स्वजनायेव, दापयित्वा करम्बकम्। स्वयं खनितुमारेभे, करीरस्तम्बमादरात् ॥२॥ प्रादुरासन् स्वर्णकुम्भाः, शीलवत्या गुणा इव । तस्या दोषा इव क्षिप्ता, भूम्यन्तस्तेन रेणवः ॥३॥ अहो! मूर्तिमती लक्ष्मीरेवासौ मद्गृहे वधूः । काचभ्रान्त्या मरकत-मिवावगणिता मया ॥ ४॥ ध्यायन्निति ।
रथे स्वर्ण-कलशान् सत्वरं न्यधात् । क्षमयामासिवांस्तां च, स्वापराधप्रकाशनात्॥५॥ AI अभिनन्दतु वधूमेष, सद्मस्थद्रव्यसोत्सुकः । स्यन्दनं वालयामास, जितकासीव युद्धतः ।
॥६॥ वधूराख्यदितोऽभ्यर्णा, मेवमेऽस्ति पितुर्ग्रहम् । तत्तातः पित्रोः संगन्तु, मुचितोऽवसरो वासौ ॥७॥ व्यावर्तस्वाग्रहादस्मात्, कुलमुज्वलयाधुना । रथमारोह मे वत्से, द्राग् पूरय मनोरथान् ॥ ८॥ सापि श्वसुरदाक्षिण्या, दक्षचित्ता तथाकरोत् । श्रेष्ठी तु | खेटयामास, रथं प्रमुदिताशयः ॥९॥ तत् पूर्व भाणित स्सर्व, समन्वानः सकारणं पर्वतो | पत्यकावास, ग्रामपार्श्व समागतः ॥१०॥ जगाद मधुरं वत्से, न ते निर्हेतुकं वचः