________________
पक्षिरुताह्वयम् ॥९१॥ गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात् । उत्थाय रथतः श्रेष्ठी, द्रुतं तत्पार्श्वमीयिवान् ॥९२॥ तदाहं हंत निर्भाग्या, निशीथे तव जाग्रतः । श्रुत्वा गोमायुकान्ताया, ध्वनितं द्रुतमुत्थिता ॥ ९३ ॥ घटमादाय मूर्ध्नाऽगां, नदीं तीर्त्वा च तेन ताम् । अदां मृतकमाकृष्य, शिवायै जलमध्यतः ॥ ९४ ॥ तत्कटीतटसंटंकी -न्यादायाभरणान्यहम् | अनर्घ्याणि घटे क्षिप्वा, क्षिप्रं स्वगृहमागमम् ॥९५॥ निरवातानि महीपीठे, सन्ति तानि तथैव च । अनेन दुर्नयेनाह मियतीं भुवमासदम् ॥ ९६ ॥ काकस्तु वक्त्यसौ स्वर्ण- दशलक्षमितं निधिम् । करीराधः स्थितं लात्वा, करम्बं देहि
धुना ॥९७॥ तदहं वच्मि रे काक !, दुर्विपाकमिदं वचः। मा पुनः पुनराचक्ष्व, क्षते क्षारमिवात्र मे ॥ ९८ ॥ ततः ससम्भ्रमं शीर्ष, कम्पयन् स्थविरो जगौ । किं वत्से ! सत्यमप्येतत्, साऽवदत् संशयोऽत्र कः ? ॥ ९९ ॥ श्रेष्ठी तु चिन्तयामास, पश्यामि क्षणमात्रतः। करस्थे कंकणे या क्रियते दर्पणेन किम् ? ॥१००॥ ततः परिकरं बद्ध्वा, वृद्धस्तरुणवत्तदा ।
Scanned by CamScanner