SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धमापदेश कणिका | सहस्रमितनिजदेशीयसुभटानाहूय तैः स्वराज्यरक्षणं विहितं. तमुदंतं निशम्य स सुघटितनृपो निजमन-2 ॥४१॥ || स्यतीवखिन्नो गुप्तलेखेन तमघटकुमारमाकार्य कथयामास, भो अघट ! अद्य मदीयः पुत्रो विक्रमसिंहः कट-11 कमध्ये महासंकटे पतितोऽस्ति, अतस्तस्य सहायार्थ त्वया तत्र गंतव्यं, इत्युक्त्वा स दुराशयो राजा “अस्याघटकुमारस्य तालपुटं विषं देयं" इति लेख तस्य हस्ते समर्प्य तं तत्र कटकमध्ये प्रेषितवान्. अथ सोऽ-13 घटोऽपि स्वसरलस्वभावेन तं लेखं लात्वा गच्छन्नंतराले क्वापि वने सुप्तस्तेन यक्षेण दृष्टः, तदा स यक्षश्चितितवान्, अहो मम पुत्रस्य केनेयं पथिकावस्था कृता? ततो निजज्ञानेन तस्य सुघटितनृपस्य दुष्टचेष्टितं विज्ञाय लेखमध्यस्थपूर्वोक्तान्यक्षराणि परावर्त्य “अस्मै त्वया सहोदरी दातव्या” इत्यक्षराणि स तत्र लेखX7 मध्ये लिखितवान्. अथ सोऽघटोऽपि प्रातरुत्थाय कटकमध्ये गत्वा तस्य विक्रमसिंहाख्यस्य राजकुमारस्य नृपदत्तं लेखं समर्पयामास. लेखं वाचयित्वा राजकुमारेणापि तूर्णं स्वसहोदरीः तस्याघटस्य परिणायिता. ततः कुमारप्रेषितः एकः सेवकः श्रीविशालायां नगर्यो गत्वा नृपाय कथयामास, हे स्वामिन् ! त्वं वर्धाप्यसे, | त्वदीयादेशेन विक्रमसिंहकुमारेण निजसहोदरी अघटाय परिणायितास्ति. एनं वृत्तांतं श्रुत्वा स राजा || HEADLIDIODOBATO
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy