________________
Scanned by CamScanner
धर्मोपदेश
EPRODHOODDENDEMEIPI
* कलाः पपाठ. अथैकदा स देवधरवणिगपि व्यापारार्थ सपुत्रस्तस्यामेव श्रीविशालाख्यायां नगर्यां समायातः, | तत्र च स निजजवनिर्जितवायुवेगयोईयोस्तुरगयोरुपढौकनपूर्वकं राजानं ननाम. राजापि संतुष्टस्तं यथा| योग्यं द्रव्यमर्पितवान्. तस्मिन्नवसरे स पुरोहितस्तु तमेवाघटकुमारं विलोकयामास. अथ तस्य वणिजो | गमनानंतरं भूपाय पुरोहितेनोक्तं स्वामिन् ! तेन देवधरेण वणिजा सार्धं यः पुरुषोऽत्र समागतोऽभूत्, स एव भवदीयस्थानेऽत्र राजा भविष्यति. पुरोहितस्य तद्वचनं श्रुत्वातीवखिन्नचित्तो राजा चिंतयामास. अहो! अयमघटकुमारो विश्वासेनैव हंतुं शक्यते, नान्यथा. अथ प्रभातसमयानंतरं स राजा तं देवधरं वणिज समाहृय कथयामास, भो देवधर ! त्वया साधैं मम समीपे समागतः पुरुषः कोऽस्ति ? तेनोक्तं स मदीयः सुतोऽस्ति. तदा राज्ञोक्तं किमस्ति तस्य किंचिदपि कलाकौशलं ? तेनोक्तं खामिन् ! धनुर्विद्यासमस्तकलाकुशलोऽयमस्ति. राज्ञोक्तं यद्येवं तर्हि सोऽत्रैव तिष्टतु? अहं तस्मै देशमेकं दास्यामि, इत्युक्त्वा राज्ञा तस्मै अघटकुमाराय मथुरानगरीराज्यं दत्तं. ततो मथुरायां प्रेषितः स समहोत्सवं तत्र प्रविष्टः. अथ तत्र गमनानंतरं तेनाघटराज्ञा चिंतितमहो मदीयवदेशीयसुभटर्विना मुधैव मम राज्यलक्ष्मीरियं, इति विचिंत्य तेन |
॥४०॥