________________
Scanned by CamScanner
धर्मोपदेश
का
॥
२
॥
17 प्रेरितेन तेन सुतेन निजजनन्यै प्रोक्तं, रे जरति ! त्वं सुखेनोपविष्टा भुंक्ष्व ? कथमनया मे भार्यया सह
कलिं करोषि? एवं स्वपुत्रदुर्वचनं श्रुत्वा सा कोपागृहान्निर्गता, पुरासन्ने च कस्यांचित्प्रपायां स्थिता, ये पथिकाश्च तत्र समायांति तेषामादरेण सा नीरपानादिना भक्तिं कुरुते. तस्या वृद्धाया मिष्टवाक्यैश्च सर्वे जनाः संतोषं प्रापुः. एवं सा वृद्धापि कलेः शांतत्वात् तत्र सुखेन कालं गमयति, यतः-जे घरे कलह कलंतर वधे, लेखे आणी अलेखे रधे ॥ ते घर तूटे जाते काले । ए परमारथ कह्यो देपाले ॥ १॥ कपिकुलनखमुखविदलित-तरुतलनिपतितफलादनं हि वरं॥न पुनर्धनमदगर्वित-भ्रूभंगविकारिणी दृष्टिः ॥२॥ इत्यादि मत्वा सा स्वगृहं विसस्मार. अथैकदा शीतधर्मवर्षाणां त्रयाणामपि कालानामधिष्टायकास्त्रयः सुरा मिलिता मिथश्च विवादं कुर्वति, यथाहं वरः, अहं वर इति युध्यमानास्ते खोकं गताः. तत्र सभो. पविष्टेनेंद्रेणोक्तं, अस्माकं नाकलोके एकोऽपि कालो नास्ति, अतो युष्माभिर्मनुष्यलोके सभ्यजनाग्रे गत्वात्मस्वरूपं निवेदितव्यं, यतः स तु सहवासित्वेन शुभाशुभं वेत्ति, भवद्विवादं च स्फेटयिष्यति. ततस्ते त्रयोऽपि सुरा द्विजरूपं विधाय वसंतपुरंप्रति चलिताः, अंतराले च प्रपानिवासिन्या तया जरत्या प्रोक्तं,
REDERABETE