________________
धर्मोपदेश ॥ २३ ॥
18090010
| व्यवहारशुद्धो न्यायोपार्जितद्रव्येण स्वाजीविकां करोति. अपरो नागदेवोऽपि तथैव निजनिर्वाहं करोति, परं तस्य स्वभावः किंचिल्लोभयुतोऽभृत्. अथ तौ द्वावपि परमश्राद्ध पापभीरू विज्ञाय तन्नगराधिपेन स्वकारितजिनमंदिरे देवद्रव्यरक्षणार्थं नियुक्तो. एवं तौ द्वावपि शुभभावेन देवद्रव्यरक्षणं कुरुतः अथान्यदा पूर्वबद्धांत रायकर्मदोषेण नागदेवः क्षीणधनो बभूव, तेन सोंतरांतरा स्वल्पं देवद्रव्यं भुंक्ते. तदर्थं वृद्धभ्रात्रा नंदेन निवारितोऽपि स नामन्यत तदा नंदेन चिंतितं एतद्वृत्तांतं प्रातर्भूपाय निवेदयिष्यामि इति चिंतयन्नेव स नंदोऽकस्मादुत्पन्ने शूलरोगेण रात्रौ मृत्वा व्यवहारिणः सुतो बभूव ततश्च्युत्वा स प्राणतकल्पे देवो जज्ञे. ततो मनुष्यत्वं प्राप्य सप्तभवेषु दीक्षामाराध्यायं युगंधर मुनिर्जातोऽस्ति अस्मिन्नेव भवे चस सिद्धिं यास्यति अथ स नागदेवस्तु तस्मिन्नेव भवे षोडशरोगयुतो बभूव, पश्चात्तापेन स स्वगृहसस्वं भक्षितदेवद्रव्यपदेऽर्पितवान् मरणसमये च शेषद्रव्यार्पणाय स निजसुतेभ्यः कथितवान् ततो मृत्वा स नागदत्तजीवश्चिरकालं नरकादिषु भ्रांत्वायं महारोगी रोरो जातोऽस्ति एवंविधं केवलिप्रोक्तं निजवृत्तांतं निशम्य स रोरोऽपि जातिस्मरणमवाप ततः स निजपापमालोच्य केवलिपार्श्वे व्रतं जग्राह, अनशनं च
EXE-GLO
E
कर्णिका
॥ २३ ॥
Scanned by CamScanner