________________
યોગબિંદુ
૨૩૧
४१२ आगमेनानुमानेन, ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां, लभते योगमुत्तमम् ॥१०॥ ८७ क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान् शठः ।
अज्ञो भवाभिनन्दी स्यात्, निष्फलारम्भसङ्गतः ॥११॥ ८ लोकाराधनहेतोर्या, मलिनेनान्तरात्मना ।
क्रियते सत्क्रिया साऽत्र, लोकपङ्क्तिरुदाहृता ॥१२॥ भवाभिनन्दिनो लोक-पङ्क्त्या धर्मक्रियामपि । महतो हीनदृष्ट्योच्चैः, दुरन्तां तद्विदो विदुः ॥१३॥ धर्मार्थं लोकपक्तिः स्यात्, कल्याणाझं महामतेः ।
तदर्थं तु पुनर्धर्मः, पापायाल्पधियामलम् ॥१४॥ १०९ पूर्वसेवा तु तन्त्रज्ञैः, गुरुदेवादिपूजनम् ।
सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता ॥१५॥ ११० माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥१६॥ ११२ पूजनं चास्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया ।
तस्यानवसरेऽप्युच्चैः, चेतस्यारोपितस्य तु ॥१७॥ ११३ अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् ।
नामग्रहश्च नास्थाने, नावर्णश्रवणं क्वचित् ॥१८॥ ११४ त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माद्यपीडया ॥१९॥ ११५ तदासनाद्यभोगश्च, तीर्थे तद्वित्तयोजनम् ।
तद्विम्बन्याससंस्कार, ऊर्ध्वदेहक्रिया परा ॥२०॥