________________
230
१
नत्वाऽऽद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि, तत्त्वसिद्ध्यै महोदयम् ॥१॥ योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥२॥ तथा च जन्मबीजाग्निः, जरसोऽपि जरा परा । दुःखानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥३॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥४॥ मलिनस्य यथा हेम्नोः, वह्नेः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्वद्, अविद्यामलिनात्मनः ॥५॥ किञ्चान्यद् योगतः स्थैर्यं धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥६॥ विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥७॥ धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ॥८॥ ५०९ पुत्रदारादिसंसार:, पुंसां सम्मूढचेतसाम् ।
विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥९॥
३७
३८
३९
४१
५२
५३
યોગબિંદુ - યોગદૃષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા
યોગબિંદુ - યોગદૃષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા हरिभद्रसूरिकृतं योगबिन्दुप्रकरणं
५४