________________ कूमापुनर्षिकथानकम् परिशिष्टम् (शुभवर्धनगणिप्रणीताया ऋषिमण्डलवृत्तौ द्वितीयखण्डे कूर्मापुत्रर्षिकथानकम्) दोरयणिपमाणतणू जघण्णओगाहणाइ जो सिद्धो / तमहं तिगुत्तिगुत्तं कुम्मापुत्तंणमंसामि // (ऋषिमण्डल 125) व्याख्या-तमहं कूर्मापुत्रर्षि नमस्करोमि / तं कीदृशम् / तिगुत्तिगुत्तं त्रिभिर्गुप्तिभिर्गुप्तम् / तं कम् / यः कूर्मापुत्रो जघन्यावगाहनायां जघन्यदेहमाने सिद्धः सिद्धिं गतः / कीदृशः / दोरयणिपमाणतणू / द्वौ अरनी हस्तौ तत्प्रमाणं तनुर्यस्य / सिद्धौ गच्छतां जीवानामवगाहना शरीरं त्रिधा–पञ्चशतधनुःप्रमाणदेहा मुक्तावुत्कृष्टावगाहना यान्ति; जघन्यावगाहनायां द्विहस्तप्रमाणदेहा मुक्तों यान्ति / तयोरन्तराले मध्यमावगाहनेति गाथार्थः // भावार्थस्तु कथानकाददसैयस्तच्चेदम् दुर्गमपुरे पुराभूद् द्रोणनरेन्द्रः सुरेण सदृशक्लः / पत्नी द्रुमाभिधास्यात्मजोऽभवद् दुर्लभस्वनयोः // 1 // कंदुकवन्निजचेटान् स लोठयन् अन्यनुपकुमारांश्च / / स्वैरं चिक्रीड चिरं दुर्ललितः पूर्वपुण्यभरात् // 2 // सुरनृपतिनतः सुगुरुः सुलोचनस्तत्र दुर्गिलोचाने / समवासार्षीकेवलसंशयहृद् युगवरोन्येयुः // 3 // तत्रोधाने यक्षण्येका नाना च भद्रमुख्यभवत् / बहुशालाख्यवटदोरधःक्षमासौधवासपरा // 4 //