________________ 0 श्रीवानर्षिगणिविहितवृत्तियुतम् // यत्र मुनीनां कषायाः दीप्यमाना अपि परकषायैः / नेच्छन्ति समुत्थातुं सुनिविष्टः पंगुलश्चैव // 97 / / धर्मान्तरायभीताः भीताः संसारगर्भवसतिभ्यः / नोदीरयन्ति कषायान् मुनयः मुनीनां स गच्छः // 98 // कारणेन अकारणेनाथ कथमपि मुनीनां उत्तिष्ठन्ति कषायाः / उदयेऽपि यत्र रुध्यन्ते क्षाम्यन्ते यत्र स गच्छः // 99 / / व्याख्या - आसां व्याख्या यथा-यत्र=गणे मन्वन्ते जानन्ति तत्त्वस्वरूपमिति मुनयस्तेषां मुनीनां परमर्षीणां 'कषायाः' क्रोध-मान-माया-लोभरूपाः 'जगडिज्जंतावि'त्ति दीप्यमाना अपि धगधगायमानं क्रियमाणा अपि, कैः ? - परेषां= दासदासीमातङ्गद्विजामात्यभूपालादीनां कषायाः उत्कटक्रोधादयस्तैः परकषायैः नेच्छंति समुत्थातुं मेतार्य-गजसुकुमाल-स्कन्धकाचार्यशिष्यादीनां कषायवत्, ‘चेव'त्ति यथार्थे यथा 'सु' इति अतिशयेन निविष्टः स्थितः 'सुनिविष्टः' पदमपि गन्तुमसमर्थ इत्यर्थः ‘पङ्गलः' पङ्गः उत्थातुं न शक्नोतीति // 97 // अगाधसंसारसागरे पततां जीवानां धत्ते इति धर्मः सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो निद्राविकथाकुमत्यादिविघ्नस्तस्माद्भीताः त्रस्ताः, तथा 'भीताः' कम्पमानाः, संसरणं संसारो= भवभ्रमणं, गर्भे वसनं वसतिः गर्भवसतिः, संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां, यद्वा संसारे चतुर्गत्यात्मके गर्भवसतयस्ताभ्य: 'नोदीरयन्ति' प्रशान्ताः सन्तः कुवाक्यादिना नोत्थापयन्तीत्यर्थः, कान् ? - 'कषायान्' कोधादीन् मुनयो मुनीनां स गच्छः / अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोघातकमरुकोदाहरणं 1, मानेऽचंकारिभट्टोदाहरणं 2, मायायां पण्ड्वार्योदाहरणं 3, लोभे आर्यमङ्ग्वाचार्योदाहरण 4 मिति // 98 // तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्त्यादिप्रयोजने सारणवारणनोदनादिकारणे वा 'अकारणे' बहिःप्रयोजनाभावे वा ‘णं' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्त्वानां कषायविपाकवेत्तॄणां