SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 37 for श्रीवानर्षिगणिविहितवृत्तियुतम् 1, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा 2, द्रव्यैषणा सचित्ताचित्तमिश्रद्रव्यभेदात्रिधा 3, भावैषणाऽपि गवेषणा 1 ग्रहणैषणा 2 ग्रासैषणा 3 भेदात्रिधा, तत्र गवेषणायामाधाकर्मादिधात्र्यादिद्वात्रिंशदोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोजनादिपञ्चदोषा विज्ञेया इति // 57 // तं पि न रूव-रसत्थं, न य वण्णत्थं, न चेव दप्पत्थं / संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ||58|| तमपि न रूपरसार्थं न च वर्णार्थं न चैव दर्पार्थम् / संयमभारवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् / / 58 / / ___ व्याख्या - 'तमपि' आहारं 'न रूपरसार्थ' तत्र रूपं शरीरलावण्यं रसश्च= भोजनास्वादस्तदर्थं न 'न च वर्णार्थं न च शरीरकान्त्यर्थमित्यर्थः, 'न चैव दर्पार्थं' न चानङ्गवृद्ध्यर्थं, भुञ्जीतेति शेषः, किन्तु 'संयमभारवहना)' चारित्रभारवहनार्थं भुञ्जीत, किमिव ?-अक्षोपाङ्गमिव वहनार्थम्, एतदुक्तं भवति-यथाऽभ्य शकटाक्षे युक्त्या दीयते न चातिबहु न चातिस्तोकं भारवहनार्थं साधूनामाहारः // 58 // तमपि कारणे भुङ्क्ते, अतः कारणमाह - वेअण 1 वेयावच्चे 2, इरिअट्ठाए य 3 संजमट्ठाए 4 | तह पाणवत्तिआए 5, छटुं पुण धम्मचिंताए 6 ||59 / / वेदनावैयावृत्त्यर्थं च संयमार्थम् / तथा प्राणप्रत्ययार्थं षष्ठं पुनो धर्मचिन्तार्थम् / / 59 // व्याख्या - क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सदृशी वेदना, उक्तञ्च "पंथसमा नत्थि जरा, दारिद्दसमो परिभवो नत्थि / मरणसमं नत्थि भयं, छुहासमा वेयणा नत्थि // 1 // " __ [पिण्डनियु० ६६३-वृत्तौ] अतस्तत्प्रशमनार्थं भुञ्जीत 1, बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्त्यकरणाय भुञ्जीत 2, 'ईर्यार्थ' ईर्यासमित्यर्थं 3,
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy