________________ 36 0 श्रीगच्छाचारप्रकीर्णकम् . दूरुज्झियपत्ताइसु ममत्तए, निप्पिहे सरीरेऽवि / जायमजायाहारे बायालीसेसणाकुसले // 57|| दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि / जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः // 57 / / व्याख्या - 'दूरुज्झिय'त्ति प्राकृतत्वाद्विभक्तिलोपः दूरतस्त्यक्तं ममत्वं, क्व? - पात्रादिषु, आदिशब्दाद्वस्तु-वसति-श्राद्ध-नगर-ग्राम-देशादिषु यैरिति शेषः, तथा 'निःस्पृहाः' ईहारहिता मेघकुमारादिवत् 'शरीरेऽपि' स्ववपुष्यपि, ‘यात्रामात्राहारकाः' तत्र यात्रा संयमगुरुवैयावृत्त्यस्वाध्यायादिरूपा मात्रा तु तदर्थमेव पुरुषस्त्रीषण्ढानां द्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति, कवलप्रमाणं च कुक्कुट्यण्डं, कुक्कुट्या अण्डं कुक्कुट्यण्डं, कुक्कुटी द्विधाद्रव्यभावभेदतः, द्रव्यकुक्कुटी द्विधा-उदरकुक्कुटी 1 गलकुक्कुटी च 2, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्याध्रातं स आहार एव उदरकुक्कुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्प्रमाणं कवलस्य 1, गल एव कुक्कुटी तस्या अन्तरालमण्डकं 2, अयं भावः-अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति तत्प्रमाणं कवलस्य, * अथवा-शरीरमेव कुक्कुटी तन्मुखमण्डकम्, तत्राक्षिकपोलभ्रुवा विकृतिमनापाद्य यः कवलो मुखे प्रविशति तत्प्रमाणं कवलस्य / अथवा-कुक्कुटी पक्षिणी, तस्या अण्डकं तत्प्रमाणं कवलस्य 1 / * भावकुक्कुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याध्रातं स्यादुदरं धृति च समुद्वहति तावत्प्रमाण आहारो भावकुक्कुटीति 2 / यद्वा ‘जायमजायाहारे'त्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद् गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति / अथवा जातो=गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निःस्पृहाः, अजातो=गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति / तथा 'द्विचत्वारिंशदेषणाकुशलाः' तत्रैषणा चतुर्धा, कस्याप्येषणेति नामेति नामैषणा 1. .....*' एतच्चिन्हान्तर्गतः पाठः पूर्वमुद्रिते लुप्तः, अत्र हस्तादर्शानुसारेण विन्यस्तः / - - - - - - - - -