SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् ng यद्यपि न शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम्। ततः सम्यग् भाषेत यथा भणितं क्षीणरागैः // 33 // व्याख्या - यद्यपि शक्यं न भवति तेन, 'सक्कइ'त्ति पाठे तु न शक्यते 'कर्तुं' विधातुं, कथं ? - 'सम्यक्' त्रिकरणशुद्ध्या 'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्मक्रियाकलापरूपं, ततः 'सम्यक् आत्मसामर्थ्यण भाषेत यादृशं स्यात्तादृशं यथा 'क्षीणरागैः' जिनैः ‘भणितं' कथितं तथा निरूपयेदिति // 33 // अथ प्रमादिनामपि शुद्धप्ररूपणया को गुणः ? इत्याह - ओस्सन्नोऽवि विहारे, कम्मं सोहेइ सुलभबोही य | चरणकरणं विसुद्धं, उववूहिंतो परूविंतो ||34|| अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च / चरणकरणं विशुद्धं उपबंहयन् प्ररूपयन् // 34 // व्याख्या - 'अवसन्नोऽपि' शिथिलोऽपि, क्व ? - 'विहारे' मनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा सुखेन लभ्येत्यर्थः बोधिः जन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ? - चरणकरणं 'विशुद्धं' निर्दोषं 'उपळहयन्' निर्मायभावेन प्रशंसां कुर्वन् 'प्ररूपयन्' च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति / तत्र - "वय समणधम्म संजम वेयावच्चं च बंभगुत्तीओ। णाणाइतियं तव२ कोहनिग्गहाइ य चरणमेयं // 1 // " [ओघनि० भा०२] तथा - "पिंडविसोही समिई भावण 2 पडिमा य२ इंदियनिरोहो / पडिलेहण५ गुत्तीओ अभिग्गहा चेव करणं तु // 2 // " [ओघनि० भा०३] इति // 34 // - - - - - - 1. 'उस्सन्नो' B-C-प्रतपाठः / - - - - - - - - - - - - - - .
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy