________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् // यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति, जम्बूस्वामिनं प्रति श्रीसुधर्मस्वामिवत् / 'सुउत्तिम मिति सुष्ठ-अत्यर्थं दृढा गुप्तिः= नवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान्, यद्वा सुष्टु-अतिशायिनी कुमतकर्कशप्रस्तरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सुउत्तम मिति पाठे तु सुष्ठ–अतिशयेनाचार्यगुणैरुत्तमः ‘यत्' यस्मात् एवंविधः 'सूरिः' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्य 'परिक्खए'त्ति तस्य परीक्षा कुर्यादित्यर्थः // 8 // सन्मार्गस्थिताचार्यस्वरूपं किञ्चिद्दर्शितम्, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह - भयवं ! केहि लिंगेहि, सूरिं उम्मग्गपट्ठियं / वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ||9|| भगवन् ! कैलिङ्गः, सूरिमुन्मार्गप्रस्थितम् / विजानीयात् छद्मस्थः, मुने ! तन्मे निशामय // 9 // व्याख्या - 'हे भगवन् !' हे पूज्य ! कैः ‘लिङ्गैः' लक्षणैः सूरिं 'उन्मार्गप्रस्थितं' विरुद्धमार्गव्यवस्थितं विजानीयात् 'छद्मस्थः' केवलज्ञान-केवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह-'हे मुने' हे भिक्षो ! 'तत्' उन्मार्गप्रस्थिताचार्यचिह्न 'मे' मम कथयतस्त्वं 'निसामय'त्ति शृणु आकर्णय // 9 // सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं / पीढयाइपडिबद्धं, आउकायविहिंसगं ||10|| मूलुत्तरगुणब्मटुं, सामायारीविराहयं / अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ||11|| स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् / पीठकादिप्रतिबद्धं, अप्कायविहिंसकम् // 10 // मूलोत्तरगुणभ्रष्टं, सामाचारीविराधकम् / अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् // 11 //