________________ 3 on श्रीवानर्षिगणिविहितवृत्तियुतम् // वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा! | जम्मतरकए पावे, पाणी मुहुत्तेण निद्दहे ||6|| तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्ठिअं / वसिज्ज तत्थ आजम्मं, गोयमा ! संजए मुणी ||7|| यामार्धं यामं दिनं पक्षं, मासं संवत्सरमपि वा। सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! // 3 // लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य / पश्यतः अन्येषां महानुभागानां साधूनाम् // 4 // उद्यमं सर्वस्थामसु, घोरवीरतपः-आदिकं / लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् // 5 // वीर्येण तु जीवस्य समुच्छलितेन गौतम ! / जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् / / 6 / / तस्मान्निपुणं निभाल्य, गच्छं सन्मार्गप्रस्थितम् / वसेत्तत्र आजन्म गौतम ! संयतो मुनिः // 7 // व्याख्या - 'यामार्द्ध' प्रहरार्धं 'याम' प्रहरं 'दिनं' अहोरात्रं 'पक्षं' मासार्धं 'मासं' पक्षद्वयं 'संवत्सरं' प्रतीतं, अपिशब्दाद् वर्षद्वयादिकं यावत्, वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते ‘गच्छे' सत्साधुगणे 'संवसमानस्य' निवासं कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येति शेषः हे गौतम ! // 3 // किम्भूतस्य ?-लीलया सुखत्वेन 'अलसमाणस्स'त्ति आलस्यं कुर्वाणस्य 'निरुत्साहस्य' निरुद्यमस्य 'वीमणं'ति षष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'पिक्खविक्खाइ' त्ति पश्यतः साधूनां 'महानुभागानां' प्रौढप्रभावाणाम् // 4 // 'उद्यमं' अनालस्यं 'सर्वस्थामसु' सर्वक्रियासु, किंभूतमुद्यमं ?- 'घोरवीरतवाइअंति घोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वात्, 'वीर'न्ति वीरे-कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधं तप आदिर्यत्र तम्, आदिशब्दाहुष्करगुर्वादिवैयावृत्त्यं, 'लज्जा' व्रीडां 'शङ्कां'