SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ foon श्रीगच्छाचारप्रकीर्णकम् // स्वल्पमुद्धरामो वयं, श्रुतमेव द्वादशाङ्गीलक्षणमेव समुद्रः सागरः श्रुतसागरस्तस्मात्श्रुतसमुद्रात् // 1 // अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति - अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्ठिए / गच्छम्मि संवसित्ताणं, भमई भवपरंपरं ||2|| सन्त्येके गौतम ! प्राणिनः ये उन्मार्गप्रतिष्ठिते / गच्छे संवस्य भ्रमन्ति भवपरम्पराम् // 2 // व्याख्या - अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति, विद्यन्त इत्यर्थः, 'एके' केचित् वैराग्यवन्तः 'प्राणिनो' जीवाः हे गौतम ! 'ये' जीवाः अज्ञानत्वेन पण्डितंमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्गः अथवा यत्र पञ्चाश्रवप्रवृत्तिः स उन्मार्गः, तस्मिन् प्रतिष्ठिते-प्रकर्षेण स्थिते एवंविधे 'गच्छे' साध्वाभासगणे 'संवसित्ताणं' ति उषित्वा 'भ्रमन्ति' परिभ्रमणं कुर्वन्तीत्यर्थः, कां ?-भवस्य चतुर्गतिलक्षणस्य परम्परा परिपाटी तां भवपरम्पराम् // 2 // अथ किञ्चित्प्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयति - जामद्ध जाम दिण पक्खं, मासं संवच्छरंपि वा / सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ||3|| लीला अलसमाणस्स, निरुच्छाहस्स वीमणं / पिक्खविक्खाइ अन्नेसिं, महाणुभागाण साहुणं ||4|| उज्जमं सव्वथामेसु, घोरवीरतवाइअं / लेज्जं संकं अइकूम्म, तस्स वीरिअं समुच्छले ||5|| - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'पक्खाविक्खीइ' A-D प्रतपाठः / 'पिक्खाविक्खिइ' B-C-प्रतपाठः / 'पेक्खाविक्खिई' E-F-प्रतपाठः / 'पेक्खोविक्खाइ' H-प्रतपाठः / 2. 'ईसक्का संक भय लज्जा तस्य' F-प्रते, 'इकासंत भय लज्जा तस्स' G-प्रते।
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy