________________ 140 for श्रीगच्छाचारप्रकीर्णकम् // सेवेत / तुः = पुनर्यो गच्छश्चारित्रगुणैरुज्ज्वलस्तं गच्छं सेवेत मतिमान् // 102 // ___(द्वि.अ.) - 'सूणा०' इत्यादि, सूनारंभप्रवृत्तं, वेषेणोज्ज्वलम् एवंविधं गच्छं न सेवेत, पुनर्यो गच्छश्चारित्रगुणैरुज्ज्वलस्तं सेवेत // 102 // जत्थ य मुणिणो कयविक्कयाई कुव्ति संजमभट्ठा / तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ||103|| यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमभ्रष्टाः / तं गच्छं गुणसागर ! विषमिव दूरतः परिहरेत् // 103 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे मुनयो क्रयविक्रयाणि कुर्वन्ति, नित्यं संयमः = सप्तदशविधः ततो भ्रष्टाः सन्तः कुर्वन्ति / हे गुणसागर ! = हे गुणसमुद्र ! हे गुणनिधान ! हे गुणज्ञाता ! तं गच्छं विषमिव दूरं यथा स्यात् तथा परिहरेत् साधुः // 10 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र मुनयः क्रयविक्रयाणि कुर्वन्ति संयमभ्रष्टाः सन्तः / हे गुणसागर ! तं गच्छं विषमिव दूरं परिहरेत् // 103 / / आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा | मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ||104|| आरम्भेषु प्रसक्ताः सिद्धान्तपराङ्मुखा विषयगृद्धाः / मुक्त्वा मुनीन् गौतम ! वसेत् मध्ये सुविहितानाम् // 10 // (प्र.अ.) - 'आरं०' इत्यादि, आरम्भेषु प्रसक्ताः, सिद्धान्तपराङ्मुखाः, विषयगृद्धाः एवंविधान् मुनीन् मुक्त्वा सुविहितानां मध्ये वसेत् = वासं कुर्यादिति गाथार्थः // 104 // (द्वि.अ.) - 'आरं०' इत्यादि, ये आरम्भेषु प्रसक्ताः, सिद्धान्तपराङ्मुखाः, विषयगृद्धाः = विषयासक्ताः, एवंविधान् मुनीन् मुक्त्वा सुविहितानां मध्ये वसेत् = वासं कुर्यात् // 104 // * - - - - - - - - - - - - - 1. 'संजमुब्भट्ठा' H-प्रते / 2. 'दूरे' E-प्रते /