SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 136 gaon श्रीगच्छाचारप्रकीर्णकम् // भावतोऽप्येको रागादिविवर्जित इति, एकः स्त्रिया सार्धं यत्र तिष्ठेत् / एकाकिन्याः संयत्याः सार्धं यत्र विशेषेण तिष्ठेत् / तं गच्छं हे गौतम ! निर्मर्यादं भाषामहे = कथयिष्यामः // 13 // (द्वि.अ.) - “एगो०' इत्यादि, एकः साधुरेकाकिन्या स्त्रिया सार्धं यत्र तिष्ठेत्, एकाकिन्या संयत्या सार्धं यत्र विशेषेण तिष्ठेत् तं गच्छं हे गौतम ! निर्मर्यादं भाषयामः = कथयामो वयमिति तीर्थंकरगणधराः प्राहुः // 93 / / दढचारित्तं मुत्तं, आइज्जं मयहरं च गुणरासिं | 'इक्को अज्झावेई, तमणायारं, न तं गच्छं ||94|| दृढचारित्रां मुक्तां आदेयां महत्तरां च गुणराशिम् / एकाकी अध्यापयति, सोऽनाचारः, न स गच्छः // 94 / / (प्र.अ.) - ‘दढचा०' इत्यादि, एकः साधुढूढचारित्रां, मुक्ताम् = निर्लोभां निःस्पृहां निरीहाम्, आदेयाम् = सर्वग्राह्यवचनाम् एवंविधां महत्तरां गुणराशिम् एकाकिनी साध्वीमध्यापयति / तं गच्छं हे गौतम ! अनाचारवन्तं जानीहि // 14 // (द्वि.अ.) - 'दढचा०' इत्यादि, एकः साधुर्यत्र = गच्छे दृढचारित्रां, मुक्ताम् = निर्लोभिनीं निःस्पृहाम्, आदेयाम् = आदेयवचनाम्, सर्वत्रग्राह्याम् = सर्वत्राग्रेसरणीमित्यर्थः / 'आरियंति पाठे आर्याम् = पूज्याम्, महत्तराम् = उपाध्यायपदवत्तिनीम् / अत एव गुणराशिम् / एवंविधामेकाकिनी साध्वीमध्यापयति उपाध्यायादिः / तमनाचारं जानीहि हे शिष्य ! इत्यवधार्यम्, न तु गच्छम् // 94 / / घणगज्जिय-हयकुहए-विज्जूदुग्गिज्झगूढहिययाओ। अज्जा अवारिआओ, इत्थीरज्जं, न तं गच्छं // 95|| जत्थ समुद्देसकाले, साहूणं मंडलीइ अज्जाओ / गोअम ! ठवंति पाए, इत्थीरज्जं, न तं गच्छं ||96|| - - - - - - - - - - - - - 1. 'एक्को' H-प्रते / 2. 'अज्जावेई' पूर्वमुद्रिते / 3. 'य-कुहय-विज्जू गोयमा ! संजईम वि दुगिज्झ०' इति E-प्रते / - - - - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy