________________ 135 for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् = प्राप्तम् पतद्ग्रहादिकं विविधमुपकरणं साधुभिः परिभुज्यते / हे गौतम ! स कीदृशो गच्छः ? न किञ्चिदिति गाथार्थः // 11 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे आर्यालब्धम् = साध्वीप्राप्तं पतद्ग्रहादिकं विविधमुपकरणं साधुभिः परिभुज्यते / हे गौतम ! स कीदशो गच्छो ? न किञ्चिदिति // 91 // किञ्च - अइदुल्लहभेसज्जं, बलबुद्धिविवड्डणंपि पुट्टिकरं / अज्जालद्धं भुंजइ, का मेरा तत्थ गच्छम्मि ? ||92|| अतिदुर्लभभैषज्यं, बलबुद्धिविवर्धनमपि पुष्टिकरम् / आर्यालब्धं भुज्यते, का मेरा तत्र गच्छे ? // 92 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे हे गौतम ! एवंविधमतिदुर्लभमपि भेषजम् = औषधं साध्वीप्राप्तम् = आर्यालब्धमुपभुज्यते = सेव्यते / भेषजं किम्भूतम् ? बलम् = तेजो देहस्य, बुद्धिः = प्रज्ञा तयोविवर्धनम् = विवर्धिकरम्, अत एव पुष्टिकरं देहस्य, ईदृग्विधमार्यानीतम् = आर्याप्राप्तमुपभुज्यते, तत्र गच्छे का मेरेति = मर्यादेति सम्बन्धः // 92 // (द्वि.अ.) - 'अइ०' इत्यादि, यत्र बलबुद्धिविवर्धनं पुष्टिकरम् अतिदुर्लभमपि भेषजम् आर्याप्राप्तं भुज्यते साधुभिः तत्र गच्छे का मर्यादा ? // 92 // एगो एगित्थिए सद्धिं, जत्थ चिट्ठिज्ज गोयमा !| संजइए विसेसेण, निम्मेरं तं तु भासिमो ||93|| एक एकाकिस्त्रिया सार्धं यत्र तिष्ठेत् गौतम ! / संयत्या विशेषेण, निर्मेरं तं तु भाषामहे // 93 / / (प्र.अ.) - “एगो०' इत्यादि, एकः साधुः द्रव्यभावापेक्षयाऽत्र चतुर्भंगी / तत्र एको द्रव्यतो न भावतः, एको भावतो न द्रव्यतः, तृतीयो न भावतो न द्रव्यतः, चतुर्थो भावतो द्रव्यतोऽपि / द्वितीयतृतीयभङ्गौ (द्वितीय-चतुर्थभङ्गौ ?) शुद्धौ / द्रव्येनैकोऽसहायः