________________ __ 133 133 0 पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् eng किञ्च - मूलगुणेहिं विमुकं, बहुगुणकलियंपि लद्धिसंपन्नं / उत्तमकुलेऽवि जायं, निद्धाडिज्जइ, तयं गच्छं ||87|| मूलगुणैर्विमुक्तो, बहुगुणकलितोऽपि लब्धिसम्पन्नः / उत्तमकुलेऽपि जातो, निर्घाटयन्ति स गच्छः // 87 / / (प्र.अ.) - 'मूलगु०' इत्यादि, बहुगुणकलितं, बहुलब्धिसंपन्नमपि उत्तमकुले संजातम्, एवंविधं मूलगुणभ्रष्टं सन्तं गुरुभिर्निर्घाटीक्रियते = तिरस्क्रियते स गच्छः // 87 // (द्वि.अ.) - 'मूल०' इत्यादि, बहुगुणकलितं, लब्धिसंपन्नं, उत्तमकुलेऽपि जातं, मूलगुणभ्रष्टं सन्तं निर्घाटयन्ति गुरवस्तं गच्छं जानीहि // 87 // जत्थ हिरण्ण-सुवण्णे, धण-धण्णे कंस-तंब-फलिहाणं / सयणाण आसणाण य, झुसिराणं चेव परिभोगो ||88|| जत्थ य वारडिआणं, तत्तडिआणं च तहय परिभोगो / मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ? ||89|| यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फटिकानाम् / शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः // 88 // यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः / मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? // 89|| (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे हिरण्यम् = अघटतिसुवर्णम्, घटितं हेम तयोः धनं = टंकादि, धान्यम् = गोधूमादि तयोः / कांस्यम् = कांस्यपात्रादि / ताम्रम् = लोहितवर्णम् / स्फटिकम् = रत्नजाति / तेषां शयनानाम्, आसनानां, शुषिराणाम् - सच्छिद्राणां परिभोगः क्रियते // 88 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र हिरण्यस्वर्णयोर्धनधान्ययोः, कांस्यताम्र 1. 'हरिण्यम्' इति B-C-प्रते /