________________ 132 for श्रीगच्छाचारप्रकीर्णकम् // (द्वि.अ.) - ‘बालाए०' इत्यादि, बालाया वृद्धाया नप्तृकाया दुहितृकाया वा भगिन्यास्तनुस्पर्शो न क्रियते हे गौतम ! स गच्छः // 84 / / किञ्च - जत्थित्थीकरफरिसं, लिंगी अरिहावि सयमवि करिज्जा / तं निच्छयओ गोयम ! जाणिज्जा मूलगुणभट्ट ||85|| यत्र स्त्रीकरस्पर्श लिङ्गी अर्होऽपि स्वयमपि (स्वयमेव) कुर्यात् / तं निश्चयतो गौतम ! जानीयात् मूलगुणभ्रष्टम् / / 85 / / (प्र.अ.) - 'जत्थि०' इत्यादि, यत्र = गच्छे स्त्रीकरस्पर्श लिंगीति कोऽर्थः ? यतिवेषलिंगी, अथवा अर्हन् स्वयमपि = स्वशरीरेण कुर्यात्, हे गौतम ! स गच्छः मूलगुणभ्रष्टं जानीहि // 85 // (द्वि.अ.) - 'जत्थि०' इत्यादि, यत्र लिंगी साधुः अर्हन्नपि स्वयं करस्पर्श कुर्यात् हे गौतम ! तं गच्छं निश्चयतो मूलगुणभ्रष्टं जानीयादिति // 85 // अथापवादमाह - कीरइ बीयपएणं, सुत्तमभणिअं न जत्थ विहिणा उ | उप्पण्णे पुण कज्जे, दिक्खाआयंकमाईए ||86|| क्रियते द्वितीयपदेन सूत्राभणितं न यत्र विधिना तु / उत्पन्ने पुनः कार्ये दीक्षाऽऽतङ्कादिके // 86 // (प्र.अ.) - 'कीरइ०' इत्यादि, यत्र = गच्छे द्वितीयपदापवादपदेनापि सूत्रानुक्तम् = आगमविरुद्ध कार्ये समुत्पन्ने चारित्ररक्षणार्थं आतंकादिके विधिनापि न क्रियते स गच्छः // 87 // (द्वि.अ.) - 'कीरइ०' इत्यादि, यत्र = गच्छे द्वितीयपदेन = अपवादपदेन सूत्रानुक्तं कार्ये समुत्पन्ने चारित्ररक्षणे आंतकादिके विधिनापि न क्रियते स गच्छ: // 86 // - - - - - - - -- 1. 'जाणेज्जा ' D-E-F-G-H-प्रतेषु /