________________ 86 6. श्रीगच्छाचारप्रकीर्णकम् ई. सिक्थद्वयादिनेत्यर्थः, 'पारयेत्' पारणकं करोतीत्यर्थः, एवंविधाऽपि साध्वी यदि 'कलहे'त्ति "द्वितीयातृतीययोः सप्तमी"ति द्वितीयार्थे सप्तमी 'कलह' राटिं स्वपरवर्गसमक्षं करोति, काभिः ?-गृहस्थानां अनार्यरूपाणां भाषा मर्मोद्घाटनाऽऽलप्रदान-शापप्रदान-मकारचकारादिगालिप्रदानलक्षणास्ताभिर्गृहस्थभाषाभिः, 'सर्व' तपःकष्टादिकं 'तीइ'त्ति 'तस्याः' नामसाध्व्याः कुरण्डतुल्यायाः 'निरर्थकं' सर्वथा निष्फलमित्यर्थः / ननु साध्वी कलहं करोति साधुः किं न करोति ?, उच्यतेप्रवाहेण स्तोककार्येऽपि रामाः शुनीवत्कलहं निष्पादयन्ति, न तथा साधवः, अत आर्याः प्रोक्ता इति // 134 // अथ कस्मादिदमुद्धरितमिति दर्शयति - महानिसीह-कप्पाओ, ववहाराओ तहेव य / साहु-साहुणिअट्टाए, गच्छायारं समुद्धियं ||135|| महानिशीथकल्पात् व्यवहारात् तथैव च / साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः // 135 // व्याख्या - श्रीमहानिशीथात्=प्रवचनपरमतत्त्वकल्पात् कल्पात् बृहत्कल्पलक्षणात् 'व्यवहारात्' परमनिपुणात् तथैव च निशीथादिभ्यः 'साधुसाध्व्यर्थाय' साधुसाध्वीनां हितार्थायेत्यर्थः 'गच्छाचारं' गणाचारप्रतिपादकप्रकीर्णकं सिद्धान्तरूपं 'समुद्धतं' उत्सर्गापवादनिरूपणेन बद्धमिति // अत्र शिष्यः प्रश्नयति-प्रकीर्णकानामुत्पत्तिः किं गणधरात् गणधरशिष्यात् प्रत्येकबुद्धात् तीर्थकरमुनेर्वा ?, उच्यते-प्रत्येकबुद्धात्तीर्थकरविशिष्टमुनेर्वा, यदुक्तं नन्दिसूत्रे - _ “से किं तं अंगबाहिरं ?, अंगबाहिरं दुविहं पण्णत्तं, तं० आवस्सयं च 1 आवस्सयवइरित्तं च 2, से किं तं आवस्सयं?, 2 छव्विहं पन्नत्तं, तं जहासामाइअं 1 चउव्वीसत्थओ 2 वंदणयं 3 पडिक्कमणं 4 काउस्सग्गो 5 पच्चक्खाणं 6, से तं आवस्सयं / से किं तं आवस्सयवइरित्तं ?, आव० दुविहं पन्नत्तं, तं०कालियं उक्कालियं च, से किं तं उक्कालियं ?, उ० अणेगविहं पन्नत्तं, तं०