________________ जैन योग : चित्त-समाधि इति / तस्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् / धर्मस्यालम्बनान्युच्यन्ते--धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि / वाचनं वाचना-विनेयाय निर्जरायै सूचदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्सनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति / अथानुप्रेक्षा उच्यन्ते–अन्विति ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षा / तत्र एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् / न तं पश्यामि यस्याहं नासौ भावोति यो मम // [ ] इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा / तथा कायः सन्निहितापायः सम्पदः पदमापदाम् / समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् // [ ] इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति / तथा जन्मजरामरणमयरभिते व्याधिवेदनामस्ते / जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके // [प्रशम० 152] एवमशरणस्य-अत्राणस्यात्मनोनुप्रेक्षा अशरणाऽनुप्रेक्षेति / तथा माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे / व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव // [प्रशम० 156] इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति / अथ शुक्लमाह-'पुहुत्तवितक्के' त्ति / पृथक्त्वेन–एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये / वितर्को-विकल्प: पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा। पूज्यस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति / तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारः / 'विचारोऽर्थव्यञ्जनयोगसंक्रान्ति' रिति (तत्त्वा र्थ० अ०६ सू० 46) वचनात् / सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः / उक्तं च उप्पायठितिभंगाइपञ्जयाणं जमेगदव्वंमि / नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं // 1 उत्पादस्थितिभंगाविपर्यायाणां यदेकस्मिन् द्रव्ये / नानानयरनुसरणं पूर्वगतच तानुसारेण //