________________ जैन योग : चित्त-समाधि इति / निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च निदइ निययकयाइं पसंसइ सविम्हओ विभूईओ / __ पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ / ' [ध्या० श० 16] इति / अथ रौद्रध्यानभेद्रा उच्यन्ते / हिंसां-सत्त्वानां वधवेधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिसानुबन्धि रौद्रध्यानमिति प्रक्रमिति, उक्तं च सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं / अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं // ' [ध्या० श० 16] इति / तथा मृषा-असत्यं तदनुबध्नाति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च पिसुणाऽसम्भासन्भूयघायाइवयणपणिहाणं / मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स // [ध्या० श० 20] इति / तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च तह तिव्वकोहलोहाउलस्स भूतोवघायणमणज्जं / परवव्वहरणचित्तं परलोगावायनिरवेक्खं // [ध्या० श० 21] इति / संरक्षणे सर्वोपायः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह सद्दाइविसयसाहणधणसंरक्खणपरायणमणिट्ठ। सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं // [ध्या० श० 22] 1 निन्दति निजकृतानि प्रशंसति सविस्मयो विभूतीः / प्रार्थयति तासु रज्यति तदर्जनपरायणो भवति // 2 सत्त्ववधवेधबंधनदहनांकनमारणादिप्रणिधानम् / अतिक्रोधग्रहग्रस्तं निधू णमनसोऽधमविपाकम् // 3 पिशुनासभ्यासद्भूतघातादिवचनप्रणिधानम् / मायाविनोऽतिसंधानपरस्य प्रच्छन्नपापस्य // 4 तथा तीवक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् / परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् // 5 शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् / सर्वाभिशंकनपरोपघातकलुषाकुलं चित्तम //