________________ स्थानाङ्गसूत्रस्य चतुर्थाध्ययनम् अविप्रयोग:-अवियोग इति द्वितीयमार्त्तमिति / तथा आतङ्को-रोम इति तृतीयम् / तथा 'परिजुसिय' त्ति निषेविता ये कामा:-कमनीया भोगाः- शब्दादयोऽथवा कामो-शब्दरूपे भोगाः-गन्धरसस्पर्शाः कामभोगाः, कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः / पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा / अथवा 'परिझुसिय' त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतं—समन्वाहारः, तदपि भवत्यार्तध्यानमिति चतुर्थ, द्वितीयं वल्लभधनादिविषयं चतुथं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः / शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम् / उक्तं च अमणुन्नाणं सद्दाइविसयवत्थूण दोसमहलस्स / धणियं वियोगचितणमसंपओगाणुसरणं च॥' तह सूलसीसरोगाइवेयणाए विओगपणिहाणं / तयसंपओगचिता तप्पडियाराउलमणस्स // ' इटाणं विसयाईण वेयणाए य रागरत्तस्स / अविओगज्झवसाणं तह संजोगाभिलासो य॥' देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ। अहमं नियाचितणमन्नाणाणुगयमच्चंतं // " [ध्या० श० 6-6] इति / ___ आर्तध्यानलक्षणान्याह-लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि / तत्र क्रन्दनता-महता शब्देन विरघणं, शोचनता-दीनता, तेपनता -तिपेः क्षरणार्थत्वादश्रुविमोचनं, परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति / एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवातस्य लक्षणानि, यत आह तस्सक्कंदणसोयणपरिदेवणताडणाइं लिंगाई / इट्ठाणिट्टवियोगावियोगवियणानिमित्ताई // [ध्या० श० 15] 1 शब्दादिविषयसाधनानामनोज्ञानां द्वषमलिनस्य / वियोगचिन्तनं बाढ-मसंप्रयोगानुस्मरणं च // 2 तथा शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं / __ तवसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः // 3 इष्टानां विषयादीनामनुभवे रागरक्तस्य / __ अवियोगाध्यवसानं तथा संयोगाभिलाषश्च // 4 देवेन्द्रचक्रवत्तित्वादिगुणद्धिप्रार्थनामयम् / / ___ अधमं निदानचिन्तनमज्ञानानुगतमत्यन्तम् // 5 तस्यादनशोचनपरिदेवनताडनानि लिंगानि / इष्टानिष्टवियोगावियोगवेदनानिमित्तानि //