________________ जैन योग : चित्त-समाधि एगाणुप्पेहा, अणिच्चाणुप्पेहा, असरणाणुप्पेहा, संसाराणुप्पेहा // ६९-सुक्के झाणे चउन्विहे चउप्पडोआरे पण्णत्ते, तं जहा–पुहत्तवितक्के सवियारी, एगत्तवितक्के अवियारी, सुहुमकिरिए अणियट्टी. समुच्छिण्णकिरिए अप्पडिवाती // ७०-सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-अव्वहे, असम्मोहे, विवेगे, विउस्सग्गे // ७१-सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा-खंती, मुत्ती, अज्जवे, महवे // ७२-सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहाअणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणप्पेहा // अभयदेवसूरि-विरचितं विवरणम् ध्यायतो ध्यानानि, अन्तर्मुहूर्त्तमात्रं कालं चित्तस्थिरता-लक्षणानि, उक्तं च अंतोमुहत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि / छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु // ' * [ध्या० श०३]. इति / तत्र ऋतं-दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा–पीडिते भवमार्तम् / ध्यानं-दृढोऽध्यवसायः। हिंसाद्यतिक्रौर्यानुगतं रौद्रं, श्रुतचरणधदिनपेतं धयं, शोधयत्यष्टप्रकारं कम्ममलं शुचं वा क्लमयतीति शुक्लम् / / 'चउन्विहे' ति चतस्रो विधा भेदा यस्य तत्तथा / अमनोज्ञस्य-अनिष्टस्य, असमणुनस्सत्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुक्तः-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तो ऽस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते / 'तस्से' ति अमनोज्ञशब्दादेविप्रयोगायविप्रयोगार्थ स्मृतिः-चिन्ता, तां समन्वागत:-समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति। बापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः / अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः-चिन्तनं तस्या: समन्वागतं समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः / अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि 'तस्से' ति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति / उक्तं च-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः" (तत्त्वार्थ म० 6 सू० 31) / इति प्रथमम् / एवमुत्तरत्रापि। नवरं मनोज्ञं-वल्लभं धनधान्यादि / 1 मन्तहर्तमात्रमेकत्र वस्तुनि मनोऽवस्थानम् / ध्यानं छमस्थानी जिनानां तु योगनिरोधः //